________________
परि. ५ सू. ८] स्याद्वादरलाकरसहितः यस्य द्वितूलके कार्ये प्रचयात्मा स्थूलपरिमाणस्यारम्भकः स्वाश्रये पटादौ । परत्र तु द्वितूलके स्थूलपरिमाणस्यारम्भकः । सामान्यगुणरूपो द्वीन्द्रियग्राह्योऽपावगव्यभावी च । तथा द्रव्यगुणकर्महेतुः । तथा हि-तन्तुसंयोगो द्रव्यम्य पटम्य हेतुः । आत्ममनःसंयोगो बुद्धयादीनां गुणानां हेतुः । एवं भेर्याकाशसंयोगः शब्दगुणस्य । ५ प्रयत्नवदात्महस्तसंयोगो हस्तकर्मणो हेतुः। एवं वेगवद्वायुसंयोगस्तृण. कर्मण इति प्राप्तिपूर्विकाऽप्राप्तिर्विभागः । स च त्रिविध एव । अन्यतर. कर्मज उभयकर्मजो विभागजश्चेति । तत्रान्यतरकर्मजः श्येनस्थापसर्पणात् । उभयकर्मजो मेषयोरपसर्पणात् । विभागजस्तु द्विविधः । कारणविभागाकारणाकारणविभागाच्च । तत्र कारणविभागात्ताव- १० द्वेशदलयोविभागाद्दलाकाशविभागः । न चायमसिद्धः । विवक्षिता. वयवक्रियाकाशदेशेभ्यो विभागं न करोति द्रव्यारम्भकसंयोगविरोधिविभागोत्पादकत्वाद्या पुनराकाशदेशविभागकी सा द्रव्यारम्भ. कसंयोगविरोधिविभागोत्पादिका न भवति । यथा विकसत्कमलदलक्रिया । न च तथा विवक्षितावयवक्रिया तस्मादाकाशदेशेभ्यो विभागं १५ न करोतीति । यदि हि भिद्यमानवंशाद्यवयविद्रव्यस्य दललक्षणावयवयोः क्रियाकाशदेशेभ्यो विभागं कुर्यात्तर्हि वंशाद्यवयविद्रव्यारम्भकसंयोगविरोधिविभागोत्पादकत्वमेवास्यां न स्यात् । कमलदलक्रियावत् । ततो वंशाधवयवक्रियाऽवयवान्तरादेव विभागं करोति । नन्वाकाशदेशादिति विभाग एवाकाशदेशविभागोत्पादकोऽवयवानामभ्युपेयः । तथा २० हि-यदावयवे कर्मोत्पन्नमवयवान्तराद्विभागं करोति न तदाकाशदेशात् । यदा त्वाकाशदेशान्न तदावयवान्तरादिति स्थितिः । किंकृता पुनरियं स्थितिरिति चेत् । उच्यते । या ह्यवयवक्रिया नौभागविभागकारिणी नासौ द्रव्यारम्भकसंयोगप्रतिपक्षभूतं विभागमारभमाणा दृश्यते दिनकरकिरणपरामर्शोपजनितकमलविकासकारिक्रियावत् । २९ तदेवं कथमिति । कमलम्य मुकुलविकासदशयोः प्रत्यभिज्ञायमान
"Aho Shrut Gyanam"