SearchBrowseAboutContactDonate
Page Preview
Page 203
Loading...
Download File
Download File
Page Text
________________ २१४ ___ प्रमाणनयतत्त्वालोकालङ्कारः परि. ५ म.८ पृथिव्युदकवृत्तिः । गन्धो घ्राणेन्द्रियपरिच्छेद्यः पृथिवीवृत्तिः । स्पर्शस्वगिन्द्रियावबोध्यः पृथिव्युदकज्वलनपवनवृत्तिः । एते च रूपरसगन्धस्पर्शाः पार्थिवपरमाणुप्वनित्याः पावकसंयोगात् । तत्र पाकजाना तेषामुत्पत्तेः । तथा हि-केचित्कन्दुके पच्यमानस्य कलशादेः प्रागव५ स्था। विसदृशरूपादियोगिनः पाककारणभूतवेगवदमिसंयोगपर्यालोचन या प्रलयोदयौ कल्पयांबभूवुः । यद्यपि हि कन्दुकनिक्षिप्ताः कुम्भादयस्तृणपर्णादिपिहितवपुषोऽपि तद्विवरप्रसृतनयनरश्मिना न विनष्टा इत्युपलभ्यन्ते । यद्यपि तसंख्यास्तत्परिमाणास्तन्निवेशास्तद्देशाश्च पका अपि दृश्यन्ते तथापि पतन्तो विभाज्यन्ते । यद्यपि च तदा तेषां कदिकारककला .... .... .... .... .... .... ‘विनोस्तु संयोगजः संयोगः' इति केचित् । तदसारम् । सक्रियम्यावयविनः क्रियात एवावयव्यन्तरेण संयोगात् । यदि चैवं नेष्यते तदाबयवानामपि स्वाक्यवापेक्षयावयवित्वेन सर्वत्रावयविषु कर्मजस्य संयोगस्योच्छेदः स्यात् । तथासति चाक्यविनि कर्माभावो भवेत् । संयोगजस्तु संयोगः समुत्पन्नमात्रम्य चिरोत्पन्नस्य वा निष्क्रियस्य कारणं संयोगिभिरकारणैः सह कारणाकारणसंयोगपूर्वकः कार्याकार्यगतः । स चैकम्माद्वाभ्यां बहुभ्यश्च संयोगेभ्यो भवति । एकस्मात्तावतन्तुवीरणसंयोगावितन्तुवीरणसंयोगः । उभयकर्मजो मेषयोरपसर्पणात् । द्वाभ्यां तन्त्वाकाशसंयोगाभ्यां द्वितन्तुकाकाशसं२० योगः । बहुभ्यश्च तन्तुतुरीसंयोगेभ्य एकः पटतुरीसंयोगः । अयं च सधः समुत्पन्नम्य निष्क्रियस्य द्रव्यस्य संयोगजः संयोगः । चिरोत्यनस्य तु देवदत्तस्य निष्क्रियस्य सक्रियहस्तकुड्यसंयोगपूर्वको देवदरकुडयसयोगः । स हि न हस्तक्रियाकार्यो व्यधिकरणस्य कर्मणः संयोगहेतुत्वादर्शनात् । सर्वश्चायं प्रयोगो मूर्तामूर्तानेकद्रव्यप्रदेशवृत्तिः २५ समानासमानजात्यारम्भकः । समानजातीयम्य संयोगम्यासमानजाती १ कन्दुके घटपचन्यां 'भट्टी' इति देशीभाषायाम् । "Aho Shrut Gyanam"
SR No.009665
Book TitleSyadvada Ratnakar Part 4
Original Sutra AuthorVadidevsuri
AuthorMotilal Laghaji
PublisherMotilal Laghaji
Publication Year
Total Pages284
LanguageSanskrit
ClassificationBook_Devnagari, Metaphysics, & Philosophy
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy