________________
परि. ३ सू. ६ ] स्याद्वादरत्नाकरसहितः
अस्योदाहरणोपदर्शनायाहयथा तज्जातीय एवायं गोपिण्डो गोसदृशो गक्यः
__ म एवायं जिनदत्त इत्यादीति ॥६॥ अत्र तज्जातीय एवार्य गोपिण्डो गोसदृशो गवय इत्याभ्यां तिर्यक्सामान्यविषयं स एवायं जिनदत्त इत्यनेन पुनरूतासामान्यविषयं ५ प्रत्यभिज्ञानमुदाहृतम् । तिर्यक्सामान्यविषयं च गोसदृशो गवय इत्युदाहरणान्तरमुपमानप्रमाणस्यात्रैवान्तर्भावप्रदर्शनार्थमुपदर्शितम् । आदिशब्दात्स एवानेनाप्यर्थः कथ्यते गोविलक्षणो महिप इदमस्मादरमिदसस्य समीपमिदमल्पमिदं महदिदमस्मात्प्रांशु हस्वं वेत्यादि । तथा---
शुण्डालदण्डपृथुगण्डतटीकराल
मापिङ्गलस्फुटसटाविकटांसकूटम् । अष्टाभिरद्धिमिरुपेतमतीव भीष्म___ माहुर्बुधाः शरभमद्भुतशौर्यवृत्तिम् ॥ ४४८ ।। स्कन्धे सटाश्चरणकोटिषु कुञ्जरेन्द्र
कुम्भस्थलीदलनदुर्ललितानि यस्य ॥ क्वापि प्रपश्यति भवान्नखपञ्जराणि ___ जानातु तं जगति केसरिणः किशोरम् ।। ४४९ ॥ गण्डस्थलीप्रविगलन्मदगन्धलुब्ध___ मुग्धभ्रमद्भमरभूषितकर्णजाहम् ।। दुर्वारदन्तमुशलं वलगण्डशैल
२० शङ्काकरं द्विरदराजमुदाहरन्ति ।। ४५० ॥ आलोक्य कज्जलमलीमसमेघमाला
मभ्युन्नतां वियति यो नरिनति हर्षात् ।। केकायितानि कुरुतेऽश्रुजलप्लुते च
धत्ते दृशौ शिखिनमेनमुशन्ति सन्तः ॥ ४५१ ॥ २५
"Aho Shrut Gyanam"