SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ प्रमाणनयतत्त्वालीकालङ्कारः [ परि. ३.सू. प्रयोजनाप्रसाधकत्वात्स्मरणस्याप्रामाण्यमित्यप्यनुपपन्नम् । अनुमानप्रवृत्तिनिहितप्राप्त्यादिलक्षणस्य तत्साध्यप्रयोजनस्य सद्भावात् । अनु मानं हि साध्यप्रतिवद्धाद्धेतोः प्रवर्त्तते । साध्यप्रतिबन्धश्च हेतोः सत्तामात्रेणानुमानप्रवृत्तेरङ्गं परिज्ञातो वा स्मृतिकोटीकृतो वा । प्रथम५ पक्षे नालिकेरीद्वीपायातस्याप्रतिपन्नाभिधूमसम्बन्धस्यापि धूमदर्शनादग्निप्रतिपत्तिः स्यात् । द्वितीयपक्षे तु बालावस्थायां प्रतिपन्नाग्निधूमसम्बन्धस्य पुनर्वृद्धावस्थायां विस्मृततत्सम्बन्धस्यापि धूमदर्शनादग्निप्रतिपत्तिप्रसङ्गः । तृतीयपक्षे तु कथं स्मरणस्य प्रामाण्यप्रतिषेधः । अनुमानप्रवृत्तेरङ्गत्वात् । यज्ज्ञानमनुमानप्रवृत्तेरङ्गं तत्प्रमाणं यथा १० प्रत्यक्षं, तथा च स्मरणम्, तस्मात्प्रमाणमिति । एवं च | अन्यप्रमाणमिव सिद्धमिदं प्रमाणं न्यायोपदेशवशतः स्मरणं यतोऽत्र ॥ ra दत्त गृहप्रभृतिको व्यवहार एष प्राप्नोति सिद्धिपदवीमनिशं जनानाम् ॥ ४४७ ॥ ४ ॥ अथ क्रमप्राप्तस्य प्रत्यभिज्ञानस्य कारणादिप्ररूपणार्थमाह अनुभवस्मृतिहेतुकं तिर्यगूर्ध्व तासामान्यादिगोचरं संकलनात्मकं ज्ञानं प्रत्यभिज्ञानमिति ॥ ५ ॥ अनुभवश्च प्रमाणेन ग्रहणम् । स्मृतिश्चानन्तरामिहितैव । अनुभवस्मृती ते हेतुर्यस्य तदनुभवस्मृतिहेतुकं ज्ञानमित्युत्तरेण योगः । अनेन २० प्रत्यभिज्ञानस्य कारणमुक्तम् । सामान्यशब्दस्य प्रत्येकमभिसम्बन्धातियक्सामान्यं च गवादिषु सदृशपरिणामात्मकम् । ऊर्ध्वता सामान्यं च परापर विवर्तव्यापि द्रव्यम् । एतदुभयमादिर्यस्य वैलक्षण्यादेर्धर्मस्तोमस्य स तिर्यगूर्च्चतासामान्यादिगोचरो विषयो यस्य तत्तथा । अनेनास्य विषयो निर्दिष्टः । सङ्कलनं विवक्षितधर्मयुक्तत्वेन वस्तुनः प्रत्ययम२५ र्शनमात्मा स्वभावो यस्य तत्सङ्कलनात्मकमिति । अनेन स्वरूपमभिहितम् । एवंविधविशेषणविशिष्टं यज्ज्ञानं तत्प्रत्यभिज्ञानमिति विज्ञेयम् ॥ ५ ॥ १५ - " Aho Shrut Gyanam"
SR No.009664
Book TitleSyadvada Ratnakar Part 3
Original Sutra AuthorVadidevsuri
AuthorMotilal Laghaji
PublisherMotilal Laghaji
Publication Year
Total Pages256
LanguageSanskrit
ClassificationBook_Devnagari, Metaphysics, & Philosophy
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy