SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ परि. ३)सू. ८५] स्याद्वादलाकरसहितः प्रतिषेच्यविरुद्धव्याप्तादीनामुपलब्धयः षडिति।८२॥ प्रतिषेध्येनार्थेन सह ये साक्षाद्विरुद्धास्तेषां ये व्याप्तादयो व्याप्यकार्यकारणपूर्वचरोत्तरचरसहचरास्तेषामुपलब्धयः षड्भवन्ति । विरुद्धव्याप्तोपलब्धिः, विरुद्धकार्योपलब्धिः, विरुद्धकारणोपलब्धिः, विरुद्ध पूर्वचरोपलब्धिः, विरुद्धोत्तरचरोपलब्धिः, विरुद्धसहचरोपलब्धिः।।दशा क्रमेणासामुदाहरणान्याहविरुद्धव्याप्तोपलब्धियथा नास्त्यस्य पुंसस्तत्त्वेषु निश्चयस्तत्र सन्देहादिति ॥ ८३॥ अत्र हि जीवादितत्त्वगोचरो निश्चयः प्रतिषेध्यस्तद्विरुद्धश्वानिश्चयस्तेन व्याप्तस्य सन्देहस्योपलब्धिः । अनिश्चयो हि विपर्ययानध्यवसाययोः सन्देहमन्तरेणापि वर्तते । सन्देहस्त्वनिश्चयं विना न जातुचि सम्भवतीत्यनयोाप्यव्यापकभावः सुप्रतीत एव । अत्रोत्तरत्र च यथा शब्द उदाहरणप्रदर्शनार्थो विज्ञेयः । एवं नास्त्यत्र शीतस्पर्श औष्ण्यादियादीन्यप्युदाहरणान्यमियुक्तैरवधार्याणि । प्रतिषेध्यो ह्यत्र शीतस्पर्शस्तन विरुद्धो बहिस्तेन च व्याप्तस्यौष्ण्यस्योपलब्धिरिति ।। ८३ ।। १५ विरुद्धकार्योंपलब्धियथा न विद्यतेऽस्य क्रोधाधु पशान्तिर्वदनविकारादेरिति ॥ ८४ ॥ ___ वदनविकारस्ताम्रत्वादिः । आदिशब्दादधरस्फुरणविकट कुटि, कोचनारुणिमादिपरिग्रहः । अत्र च प्रतिषेध्यः क्रोधाद्युपशमस्तत्कार्यस्य वदनविकारादेरनुपलब्धिरिति । एवं नास्त्यत्र शीतं धूमादित्यादी- २० न्यप्युदाहर्तव्यानिः । प्रतिषेध्यमिह शीतं तद्विरुद्धों वह्निस्तत्कार्यस्य धूमस्योपलब्धिरिति ॥ ८४ ॥ विरुद्धकारणोपलब्धिर्यथा नास्य महर्षेरसत्यं समास्ति रागद्वेषकालुष्याकलातिज्ञानसम्पन्नत्वादिति।।५।। 5 "Aho Shrut Gyanam"
SR No.009664
Book TitleSyadvada Ratnakar Part 3
Original Sutra AuthorVadidevsuri
AuthorMotilal Laghaji
PublisherMotilal Laghaji
Publication Year
Total Pages256
LanguageSanskrit
ClassificationBook_Devnagari, Metaphysics, & Philosophy
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy