SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ परि.. ३ सु..५५ ] स्याद्वादरत्नाकरसहित: अविनाभावनिबन्धनो हि साध्यसाधनयोर्गम्यगमकभावः । यथा चोपलब्धेर्विधौ साध्येऽविनाभावाद्गमकत्वं तथा प्रतिषेधेऽपि । अनु पलब्धेरपि यथा प्रतिषेधेऽविनाभावाद्गमकत्वं तथा विधावपि । एतया व्यक्तीभविष्यत्युदाहरणपरम्परायामिति ।। ५१ ।। अथ को नाम विधिप्रतिषेध, यत्सिद्धिनिबन्धनमुपलब्ध्यनुपलब्धी ५ इत्यारे कायां विधिं तावत्प्ररूपयन्नाहविधिः सदंश इति ॥ ५२ ॥ सदसदेशात्मक सर्वस्मिन्वस्तुजाते सदंशो भावांशापर पर्यायो विधिरिति बोद्धव्यः ॥ ५२ ॥ अथ प्रतिषेधलक्षणमाह - प्रतिषेधो ऽसदंश इति ॥ ५३ ॥ सदसंदेशात्मके एवं वस्तुन्यसदेशो भावांशापरनामा प्रतिषेधः प्रतिपत्तव्यः ॥ ५३ ॥ ५७१ यन्निवृत्तावेव कार्यस्य समुत्पत्तिः सोऽस्य प्रागभाव इति ॥ ५५ ॥ अस्यैव प्रकारानाह स चतुर्धा प्रागभावः प्रध्वंसाभाव इतरेतराभावो ऽ- १५ त्यन्ताभावश्च ॥ ५४ ॥ स प्रतिषेधश्चतुर्धा । प्राक् पूर्वमभवनं प्रागभावः । प्रध्वंसश्वासाव भावश्च प्रध्वंसाभावः । इतरस्येतरस्मिन्नभाव इतरेतराभावः । अत्यन्तमभवनमत्यन्ताभावः । चः समुच्चये । विधेस्तु प्रकाराः स्याद्वादैदम्पयवेदिभिश्चिरन्तनैरपि नैयत्थेन न प्रदर्शिता इत्यस्माभिरप्युपेक्षितास्त २० इति ॥ ५४ ॥ तत्र प्रागभावमाविर्भावयन्नाह — " Aho Shrut Gyanam" १०
SR No.009664
Book TitleSyadvada Ratnakar Part 3
Original Sutra AuthorVadidevsuri
AuthorMotilal Laghaji
PublisherMotilal Laghaji
Publication Year
Total Pages256
LanguageSanskrit
ClassificationBook_Devnagari, Metaphysics, & Philosophy
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy