________________
परि. १ सू. ७ ] स्याद्वादरत्नाकरसहितः तिरिति । विकल्पव्यतिरेकेणापरस्याप्रतीयमानत्वात् । पार्थक्येन हि प्रतीतावपरत्रापरस्यारोप उपपन्नश्चैत्र मैत्रारोपवत् । न चास्पष्टाभो विकल्पः स्पष्टाभं च निर्विकल्पकं प्रत्यक्षतः प्रतीतम् । तथापि परिस्फुटस्वेनानुभूयमानस्वरूपं विकल्प परित्यज्याननुभूयमानस्वभावं निर्विकल्पक परिकल्पयन् कथं नाम परीक्षकः स्यात् अनवस्थाप्रसक्तेः । निर्विक- ५ ल्पकस्वभावादप्यन्यादृक् स्वभाव प्रत्यक्षमित्यपि कल्पनापत्तेः । युगपट्टनेश्चाभेदाध्यवसाये स्वीक्रियमाणे यदालास्य लोचनगोचरे रचयतस्ताम्बूलकर्पूरयोः - स्वाद खादयतः स्फुटं सुमनसामाजिघ्रतः सौरभम् । तूली संस्पृशतो मृदङ्गसुभगं सङ्गीतकं शृण्वतः __ किञ्चिच्चिन्तयतो भवन्ति युगपज्ज्ञानानि षट् कस्यचित् ॥७३॥
तदा रूपादिज्ञानवटकस्यापि भवन्मते सहोत्पत्तेरेभदाध्यवसायः किं नं भवेत् । अथ भिन्नविषयत्वात्तेषां तदभावः । तर्हि प्रकृतयोरपि स न स्यात् क्षणसन्तानविषयत्वेन निर्विकल्पकसविकल्पकयोरपि भिन्नविषयत्वस्याविशेषात् । आशुवृत्तेः पुनरेकत्वाध्यवसाये जिननमनमित्या- १५ दावपि नकारयोरेकत्वाध्यवसायप्रसङ्गः । यदि च विकल्पाविकल्पयोरप्रतीयमानोऽपि भेदस्त्वया स्वीक्रियते । तर्हि कापिलपरिकल्पितः कथं बुद्धि चैतन्ययोर्मेदः पराक्रियते । अप्रतीयमानत्वाविशेषात् । अथ विकल्पाविकल्पयोः सादृश्यादभिभवाद्वा भेदेनानुपलम्भः प्रतिपाद्यते भोस्तार्किक किं कृतमनयोःसादृश्यन् । विषयाभेदकृतं ज्ञानरूपताकृतं वा । २० न तावद्विषयाभेदकृतम् । सन्तानेतरविषयत्वेनानयोर्विषयाभेदासिद्धेः । नापि ज्ञानरूपताकृतं सादृश्यमभेदाध्यवसायनिबन्धनम्। एवं सति नीलपी तादिज्ञानानामपि भेदेनोपलम्भो न भवेत् । ज्ञानरूपताकृतसादृश्यतस्तत्राप्यभेदाध्यवसायप्रसक्तेः । अथाभिभवादनयों देनानुपलम्भः प्रतिपाद्यते । ननु केन कस्याभिभवः । तिग्मभानुना विभावरीभुजंग- २५ स्येवेति चेत् , ननु विकल्पस्याप्यविकल्पकेनाभिभवः कस्मान्न भवति ।
"Aho Shrut Gyanam"