SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ प्रमाणनयतत्त्वालोकालङ्कारः परि. १. सू. ६. संविद इति संविदात्मा तस्य । तथाहि लब्धिस्वभाव भावेन्द्रिय स्वार्थसंविदि योग्यत्वादात्मनः सतः प्रतिपद्यते । नहि तत्रायोग्यस्यात्मनस्तदुत्पत्ति राकाशवत् । स्वार्थसंविद्योग्यतैव च लब्धिः । एतच्चेन्द्रियमत्रानोपयिकमुपयोगरूपस्यैव तस्य प्रस्तुतोपयोगित्वात्तस्यैव प्रमितौ साधकतमत्वात् । तत्पुनरात्मनो व्यापारमन्तरेण स्वार्थसंविदोऽनुपपत्तेः प्रतीयते । नएव्यापृत आत्मा स्पर्शादिप्रकाशको भवितुमर्हति । सुषुप्तस्यापि तत्प्रसङ्गात् । नच सुषुप्तावस्थायां स्पर्शनादीन्द्रियसन्निकर्षाभावादेव न तत्प्रसङ्ग इति जल्पनीयम् । अतिमहणतूलिकाताम्बूलमालतीमांसलामोदसुन्दरगेयशब्दादिसन्निकर्षस्य स्पर्शनादीन्द्रियाणां तदानीमपि भावात् । नापि मनसस्तदानीमिन्द्रियसन्निकर्षाभावात्तदप्रसङ्गः । त्वदुक्तस्याणुपरिमाणस्य मनसो निरासेनाशेषात्मप्रदेशव्यापिनः पौद्गलिकस्य तस्य व्यवस्थापयिष्यमाणत्वादिन्द्रियैः संयोगसिद्धेः। न चात्मनो व्यापकत्वेन व्यापाराभावः । परिस्पन्दात्मकस्यैव तस्य ततस्तत्राभावसिद्धेः । ज्ञानरूपस्य तु तस्य तद्धि लक्षणत्वात् । न च हेतुरप्यत्र सिद्धः । आत्मनि व्यापकत्वस्य व्याह१५ तत्वेन निर्देक्ष्यमाणत्वात् । यदि वा आत्मा कंचन व्यापार विनैव प्रमितिप्रारंभप्रागल्भ्यमभ्यस्येत् तर्हि कारकान्तरमपि निर्व्यापारमेव स्वस्वकार्योपार्जनचर्यतामाबिभ्रीत । तथा च यावत्सत्त्वं कुठारादिच्छेदनं कुर्यात् ततोऽस्ति कश्चिदात्मनः प्रमितो व्यापारः । इतोऽप्यस्ति यदसनिधाने कारकान्तरसन्निधानेऽपि यन्नोत्पद्यते तत्तत्करणम् । यथा परश्वधासन्निधाने ब्रश्चनादिसन्निधाने दारुदारणमनुत्पद्यमानं परश्वधकरणकम् । नोत्पद्यते च प्रस्तुतेन्द्रियासन्निधानेऽर्थसंवेदनमुपकरणसद्भावेऽपि । न चात्र हेतोरसिद्धिः । अतिकर्कशतर्कशास्त्रपरामर्शकतानस्य प्रमातुः पुरःपरिचलदचलशिखरानुकारिकुञ्जरकुञ्जरेणन्द्रियसन्निकर्षसम्भवेऽपि प्रस्तुतेन्द्रियासन्निधाने तद्गोचरपरिच्छेदानुत्पादात् । १ 'वर्यताम् ' इति म. पुस्तके पाठः । २ 'अपि' इत्यधिक प. म.पुस्तकयोः । ३ 'कुञ्जर' इति नास्ति प. पुस्तके । "Aho Shrut Gyanam"
SR No.009662
Book TitleSyadvada Ratnakar Part 1
Original Sutra AuthorVadidevsuri
AuthorMotilal Laghaji
PublisherMotilal Laghaji
Publication Year
Total Pages274
LanguageSanskrit
ClassificationBook_Devnagari, Metaphysics, & Philosophy
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy