SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ परि. १ स्. ६] स्याद्वादरत्नाकरसहितः यत्पुनरनुमानं तत्सिद्धावभ्यधायि । सन्निकर्षादिरनिश्चिती करणं न भवति स्वनिश्चितावकरणत्वादिति । तत्रार्थनिश्चितेस्तावदावाभ्यामविवादेन फलत्वं प्रतिपन्नम् । तच्च सन्निकर्षस्य करणतां समस्तप्रतिपत्तसाक्षिक समर्पयतीति कथमकितवः कश्चित्तस्य तदपलापं विदधीत । तथाहि न फलं किञ्चित्करणमन्तरेणोत्पद्यमानमीक्ष्यते । न चात्र प्रमाता प्रमेयं वा ५ करणतया कल्पनीयम् । कर्तृकर्मतया तयोर्व्यवस्थितत्वात् । तस्माद्दारुद्वैधीभावस्वभावे फले परश्वधादिवदनिश्चितिरूपे फले सन्निकर्ष एव करणम् । तस्यैव तत्र घटमानत्वादित्यनुमानबाधितः पक्षः । हेतोश्चात्र प्रदीपेन व्यभिचारः । तस्य स्वनिश्चितावकरणस्याप्यर्थनिश्चितौ करणत्वात् । तथा चाहुलौकिकाः प्रदीपेन पन्थानं पश्याम १० इति । एवं च सन्निकर्षस्य करणत्वप्रतिषेधानुपपत्त्यार्थव्यवसितावसाधकतमत्वस्यासिद्धेर्लब्धावकाशमिदम् । सन्निकर्षः प्रमाणमर्थप्रमितौ साधकतमत्वाद्यत्तु नैवं तन्नैवं यथा सम्प्रतिपन्नम् । न च नार्थप्रमितौ साधकतमः सन्निकर्षः। तस्मात्तथा । ननु सन्निकर्षप्रसिद्धौ किं प्रमाणं यतो नाश्रयासिद्धता हेतोः स्यादिति चेत् । उच्यते । स्पर्शनादीन्द्रि- १५ येषु सन्निकर्षस्तावदविवादसिद्धस्तेषामसन्निकृष्टानुपलम्भकत्वात् । लोचन एव त्वावयोर्विप्रतिप्रत्तिः । सापि बाह्येन्द्रियवादिना साधनेन स्पर्शनादिवचक्षुषः प्राप्यकारित्वसिद्धया निरस्तावकाशैवेति सिद्धः सन्निकर्षः । स चैवं प्रमाणप्रतिपन्नस्वरूपः सन्निकर्षः षोढा । संयोगः, संयुक्तसमवायः, संयुक्तसमवेतसमवायः, समवायः, समवेतसमवायः, २० उक्तसम्बन्धसम्बद्धवस्तुविशेषणविशेष्यभावश्चेति । तत्र द्रव्यं चक्षुषा त्वगिन्द्रियेण च संयोगात् गृह्यते, द्रव्यसमवेतानि गुणकर्मसामान्यानि संयुक्तसमवायात् गृह्यते, गुणकर्मसमवेतानि सामान्यानि संयुक्तसमबेतसमवायादवबुद्धयन्ते, चक्षुषा हि संयुक्तं द्रव्यं तत्र समवेतानि गुणकर्माणि गुणकर्मसु च समवेतानि तत्सामान्यानीति समवायाच्छब्दः २५ परिच्छिद्यते,विशिष्टादृष्टाधिष्ठितः कर्णशष्कुल्यवच्छिन्नो व्योमद्रव्यैकदेशो "Aho Shrut Gyanam"
SR No.009662
Book TitleSyadvada Ratnakar Part 1
Original Sutra AuthorVadidevsuri
AuthorMotilal Laghaji
PublisherMotilal Laghaji
Publication Year
Total Pages274
LanguageSanskrit
ClassificationBook_Devnagari, Metaphysics, & Philosophy
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy