________________
परि. १ सू. २]
स्याद्वादरत्नाकरसहितः
प्रसङ्गापादनद्वारेणानवस्थाप्येषा परैः प्रकाश्यमाना न नः काञ्चन
क्षतिमातनोति । तदाह
' मूलक्षतिकरीमाहुरनवस्थां हि दूषणम् । मूलसिद्धात्वरुद्वापि नानवस्था निवार्यते ॥ १ ॥'
किञ्च यद्यनुपलब्धार्थावबोधकमेव प्रमाणमङ्गीक्रियते कथं तर्हि तपस्विनी प्रत्यभिज्ञा प्रामाण्यं स्वीकरिष्यति । पूर्वोपलब्धार्थपरिच्छेदकत्वस्यापि तस्यां प्रतीयमानत्वात् ।
•
" Aho Shrut Gyanam"
४१
अथाधिगतगन्तृत्वे प्रामाण्यं स्यात् स्मृतेरपि ।
यदि स्यात् किं तदा जातं क्षुण्णं जैनेन्द्रशासने || ३२ ॥ परोक्षव्यक्तिरेषा हि प्रमाणं स्मृतिरिष्यते । स्वपरव्यवसायित्वात् स्याद्वादन्यायवेदिभिः || ३३ ॥ परिच्छेदे तृतीये च सर्वमेतद् भणिप्यते । तस्मादबुद्धबोद्धृत्वे मुच्यतामयमाग्रहः ॥ ३४ ॥
न च प्रकृतं प्रमाणलक्षणमव्यापकमिति मन्तव्यम् । सर्वासामपि प्रत्यक्ष परोक्षप्रमाणव्यक्तीनां स्वपरव्यवसायिज्ञान- १५ 'स्वपरव्यवसायिज्ञानं प्रमाणामिति सिद्धान्तलक्षणेऽ- त्वेन व्याप्तानामुपलभ्यमानत्वात् । ननु सर्वज्ञानानां तिव्याप्त्यादिदोषपरिहारः । स्वरूपसंवेदनं प्रमाणं प्रति परव्यवसायासम्भवेनैतलक्षणावृत्तेरव्यापकतैवेति चेत् नैवम् । तत्र स्वं चासौ ग्राह्यत्वसाधर्म्येण परश्च स्वपरस्तं व्यवस्यतीत्येवं शीलं यत्तत्तथेत्येवं लक्षणयोजनात्। अतिव्यापकं तद्भविष्यतीत्यपि न परिभावनीयम् । अप्राणभूतेषु सन्देहा- २० दिषु सर्वथाप्येतदसम्भवस्य प्रदर्शितत्वात् । नाप्यसम्भवदोष कलुषितमेतलक्षणम् । तत्सम्भवसाधकस्य प्रमाणत्वाख्यस्य हेतोः सद्भावात् । तथाहि प्रमाणं स्वपरव्यवसायिज्ञानं प्रमाणत्वात् । यत्पुनः स्वपरव्यवसाविज्ञानं न भवति न तत् प्रमाणं यथा संशयादि घटादि चप्रमाणं च विवादापन्नं ततः स्वपरव्यवसायिज्ञानम् । न च २५
१०