________________
प्रमाणनयतत्त्वालोकालङ्कारः
[परि. १ स. १
वाजानानः पृच्छति शास्त्रमिदमनेन प्रयोजनेन तद्वदित्येन किमुक्तं भवतीति न पुनस्तदतो भविष्यत्युत नेति संदिग्धे । प्रागनधिगततत्स्वरूपस्य तद्भातराभ्यां संशयायोगात् । अप्रतिपत्तिस्तु स्यात् ततो वाक्यात् न जानेऽहं किमनेनोक्तमिति । अनुभूतविस्मृतप्रयोजनविशेषोऽपि च कस्यचिच्छास्त्रस्य परिसमाप्तितः परिज्ञातप्रयोजनविशेषः समुत्पन्नतद्विषयस्मृतिनिबन्धकप्रत्ययः सन् श्रोता तदानेन वाक्येन शास्त्रतः समुपजालप्रयोजनविशेषविषयस्मृतिकः क्रियते यदि तदन्तरेणापि कुतश्चिदतिसमाहितान्तःकरणादिप्रत्ययकलापात् तदुत्पत्तिर्न स्यात् । तदेव वा शास्त्रं प्रागनुभूतप्रयोजनविशेषशास्त्रसादृश्यादुपलभ्यमानं स्मृति नाविर्भावयेदित्यलं वाक्यकल्पनया । नहि वाक्यतोऽपि विस्मृतप्रयोजनविशेषस्य नियमेन स्मृतिर्भवति । ततोऽपि कदाचित् तम्या उत्पत्तिरिति चेत् । तर्हि कदाचिच्छास्त्रमात्रादपि तदुत्पत्तिदृश्यत एवेति कः शास्त्राद्वाक्यस्यातिशयः । नियमेन तु नोभाभ्यामप्यनुस्मरणं भवति ।
अन्येऽपि वा तद्धेतवस्तत्रोपन्यस्यरेन्निति त्यज्यतां तदास्थानिर्बन्धः । १५ सामान्यविशेषयोश्च दर्शनादर्शनाभ्यां विशेषम्मरणसहकारिभ्यां संशयः
समुपजायते । न च वाक्यं प्रयोजनविशेषस्य भावाभावयोः सामान्यम् । ननु विवक्षापरतन्त्रत्वेन स्वार्थतथाभावातथाभावयोरपि प्रयोगसम्भवात् सामान्यमेव वाक्यमिति चेत् । तर्हि शास्त्रमपि शास्त्रान्तरसादृश्यात्
प्रयोजननिर्वृत्त्युपायत्वानुपायत्वयोःसामान्यमन्यतरनिश्चयनिमित्ताभावात् २० तत एव संशयतैः प्रवर्ततामिति शास्त्रेण कृतकृत्यत्वादकिंचित्कर
वाक्यम् । नापि संशयात् प्रवर्त्तमानः प्रेक्षापूर्वकारी भवितुमर्हति प्रमाणपुरःसरप्रवृत्तिप्रसादप्राप्यत्वात् तद्वयपदेशस्येति । स्यान्मतं माभूत् संशयोत्पादनेनादिवाक्यस्य प्रवृत्तौ सामर्थ्य किन्तु नारब्धव्यमिदं शास्त्रं
प्रयोजनरहितत्वात् काकदन्तपरीक्षादिवदिति शास्त्रपारम्भप्रतिषेधाय २५ प्रयुज्यमानाया व्यापकानुपलब्धेरसिद्धतोद्भावनार्थं तत्प्रयोगोऽवकल्प्यत
१ 'संशयानः' इति प. पुस्तके पाठः ।
"Aho Shrut Gyanam"