________________
परि. १ सू. १६ ] स्याद्वादरत्नाकरसहितः
अदृष्टतः स्वीक्रियते त्रिलोकीविचित्रतैषा यदि च प्रवादिन् । सुदुर्भगाविभ्रमसन्निभेन ब्रह्मात्मना तर्हि किमत्र कार्यम् ॥ २०३ ॥ ननूर्णनाभो यथा लालाजालकरणे स्वभावात् एव प्रवर्तते तथा परमात्मा जगन्निर्माण इति चेत् । तदपि सकर्णानामनाकर्णनीयम् । ऊर्णनाभो हि न स्वमावत एव प्रवर्तते किं तर्हि प्राणिभक्षणलाम्पट्या- ५ प्रतिनियतहेतुसम्भूततया कादाचित्कात् । यदप्युक्तमिन्द्रियसन्निपातानन्तरसमुद्भूताविकल्पकाध्यक्षतः परानपेक्षतया प्रतीयमानमेकत्वमेवेत्यादि । तदपि न पेशलम् , यतः
एकव्यक्तिगतं किं वाऽनेकव्यक्तिसमाश्रितम् ॥ व्यक्तिमात्रगतं यद्वा तदेकत्वं प्रतीयते ॥ २०४ ॥ एकव्यक्तिगतं तच्चेत्तदा पर्यनुयुज्यते ॥ समानमसमानं वा न समानं विरोधतः ॥ २०५ ॥ एकव्यक्तिगतं तद्धि कथं साधारणं भवेत् ॥ अथासमानमेतन्न भेदसिद्धिप्रसङ्गतः ॥ २०६ ॥ यदसाधारणं रूपं भेदस्तस्माद्धि कोऽपरः ॥ एकव्यक्तिगतं तस्मान्नैकत्वमुपपद्यते ॥ २०७ ॥ अनेकव्यक्तिसम्बद्धं सत्तासामान्यलक्षणम् ॥ प्रत्यक्षमानतो ग्राह्यमथैकत्वमिहोच्यते ॥ २०८ 11 व्यक्त्याधारतया तम्कि प्रतीयेतान्यथापि वा ।। आद्यपक्षे प्रतिक्षेपः कथं भेदस्य सम्भवेत् ॥ २०९ ॥ व्यक्तेराधाररूपत्वं तस्य चाधेयतेत्ययम् ।। आधाराधेयभावो हि भेदमाकर्षति ध्रुवम् ॥ २१० ॥ अथ तद्वयक्त्यनाधारतया हन्त प्रतीयते ।।
अन्तरालेऽपि भासेत व्यक्तीनामग्रहे नर्नु ॥ २११ ॥ . १ च ' इति प. पुस्तके पाठः । २ ' नतु ' इति भ. पुस्तके पाठः।
२०
"Aho Shrut Gyanam"