SearchBrowseAboutContactDonate
Page Preview
Page 20
Loading...
Download File
Download File
Page Text
________________ परि. १ सू. १] स्याद्वादरत्नाकरसहितः तेषां सहकारित्वाविशेषात् । अवितथमेतत् केवलमाप्तस्मरणनिर्मितान्येव तानि शास्त्रसिद्धौ सहकारीणीत्यवधारणं प्रतिषिध्यते । सत्पात्रदानादिना निमित्तान्तरेणापि निर्मितानां तेषां तस्यां सहकारित्वसम्भवात् । कदाचित्तदभावेऽपि पूर्वोपार्जितधर्मविशेषेभ्य एव शास्त्रनिष्पत्तेश्च । परापरगुरूपदेशस्तु न तद्वदनियतः शास्त्रकरणे तस्यावश्यमपेक्षणीय- ५ त्वादितरथा तदनुपपत्तेः । ततः परापरगुरुप्रवाहस्य शास्त्रसिद्धिनिबन्धनत्वात् तदारम्भसमये तत्स्मृतिरुपपन्नैवेति ॥ कथं पुनः प्रमाणनयतत्त्वालोकः शास्त्रं येन तदारम्भे परापरगुरु का प्रवाहः स्मर्यत इति चेत् । उच्यते । तल्लक्षणयोप्रमाणनयतत्त्वालोकस्यगात । तथाहि वर्णात्मकं पदम् । पदात्मकं सूत्रम् । १० शास्त्रत्वसिद्धिः। - सूत्रसमूहः प्रकरणम् । प्रकरणसमूहो यथासमय परिच्छेदो वा पादो वा आहिकं वा अध्यायो वा तत्समूहश्च शास्त्रमिति शास्त्रलक्षणम् । तच्चाष्टपरिच्छेदीरूपस्य प्रमाणनयतत्त्वालोकस्यास्तीति सोऽपि शास्त्रम् । यद्वा विश्वव्यापकाप्रमाणनयतत्त्वशासनाच्छास्त्रत्वमस्य मनीषिभिर्मन्तव्यम् । प्रसिद्धे चास्य शास्त्रत्वे तद्विवरणस्यापि शास्त्रत्वं १५ सिद्धमवबोद्धव्यम् । तदर्थत्वात् । एवं च सिद्धमिदम् यः सूत्रार्थपवित्रशास्त्रपटली निर्वर्तनप्रौढता हेतुत्वात् परमोपकारकतया विश्वत्रये विश्रुतः । प्रारम्भेऽत्र कृतज्ञता प्रकटयन्नात्मन्यसौ सूत्रकृत् तामेतामकरोत् परापरगुरुस्तोमस्य तस्य स्मृतिम् ॥ १० ॥ २० ननु शक्यानुष्ठानाभिधेयेनाभिमतप्रयोजनेन सम्बन्धेन च सहिता न्येव शास्त्राणि प्रेक्षावद्भिराद्रियन्ते नान्यथा । प्रमाणनयतत्त्वेति सूत्रमवतारयितुं शास्त्रेऽनुब- प्रेक्षावत्त्वक्षतेः । तत्किमिदं प्रस्तूयमानं शास्त्रन्धचतुष्टयस्यावश्यकत्व- मभिधेयप्रयोजनसंबन्धैः सहितं रहितं वा प्रदर्शनम्। " स्यात् । रहितं चेत् तर्हि तदारम्भार्थमभियोगो २५ निरुपयोगः स्यात् । अहिलेप्रलापवायसदशनस्वरूपोपवर्णनदर्शदाडिमा १ विषयः, संबन्धः, प्रयोजनं, अधिकारीत्यनुबन्धचतुष्टयम् । २ अहिलस्य पिशाचाविष्टस्य प्रलापाः। ३'काकस्य कति वा दन्ता मेषस्याण्डं कियत्पलम् ।गर्दभे कति रोमाणीत्येषा मुर्खविचारणा' इति वचनानुसारं वायसदन्तस्वरूपोपवर्णनं निरर्थकम् ।४ 'दशदाडिमानि षडपूपाः' इत्यादिकं निरर्थकवाक्योदाहरणं पातालभाष्ये। "Aho Shrut Gyanam"
SR No.009662
Book TitleSyadvada Ratnakar Part 1
Original Sutra AuthorVadidevsuri
AuthorMotilal Laghaji
PublisherMotilal Laghaji
Publication Year
Total Pages274
LanguageSanskrit
ClassificationBook_Devnagari, Metaphysics, & Philosophy
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy