________________
१३२
प्रमाणनयतत्वालोकालङ्कारः
[ परि १ सू० ११
त्कलधौततया प्रतिभातीति । यथा च सर्वं वस्तु स्वरूपेण सत्पररूपेण पुनरसदित्यभिधीयते न च विरुद्धयते तथा कथयिष्यामः स्याद्वादसिद्धिप्रघट्टक इति मा त्वरिष्ठाः । एवं च यदवाचि शुक्तिशकले प्रतिभासमानस्य कलधौतस्येत्यादि तत्सर्वं प्रतिक्षिप्तमवगन्तव्यम् ।
किञ्च शुक्तिशकले कलधौतं प्रतिभातीति कथञ्चिन्न घटते विकल्पैविघटमानत्वात् । तथाहि । देशान्तरादिस्थितमेव कलधौतं शुक्तिकाशिरसि परिस्फुरति किं वा देशान्तरादायातनुताहो शुक्तिकायामेव सम्पन्नमिति । तत्र न प्रथमविकल्पः कल्पनाहः । देशान्तरादिस्थितस्य कलधौतस्यात्र करणजम्रान्तिबोधाविर्भावे कर्मकारकत्वायोगात् । नापि १० द्वितीयो विकल्पः । श्रान्तिज्ञानोत्पादकाले देशान्तरादागच्छतः कलधौतस्यानवलोकनात् । तृतीयोऽपि विकल्पो न समुचितः । शुक्तिकायां कलधौतस्योत्पादकारणानुपपत्तेः । न हि परिणाम्यादिकारणसामग्री विना पारमार्थिकस्य कार्यस्योत्पत्तिरुपपद्यते । अथ शुक्तेरज्ञानमेव तत्र प्रतीयमानस्य कलधौतस्य परिणामिकारणमिति मतिः । दुर्मतिरेवेयम् । १५ अज्ञानस्य केवलपरिणामिकारणत्वायोगात् । अज्ञानं हि सम्यग्ज्ञानस्य प्रागभावो मिथ्याज्ञानं वा । द्वयमपि केवलं न परिणामिकारणम् । द्रव्यस्यैव तत्पर्यायपरिकरितस्य परिणामिकारणत्वप्रसिद्धेः । तर्द्धात्मद्रव्यमेव सम्यग्ज्ञानप्रागभावलक्षणपर्यायाविष्टं मिथ्याज्ञानस्वरूपपर्यायाक्रान्तं वा शुक्तिशकले कलधौतस्य परिणामिकारणं भविष्यतीत्यपि २० न सम्भावनीयम् । चेतनस्याचेतनं प्रति कथञ्चन परिणामिकारणत्वानुपपत्तेः । स्यादाकूतं भवतः । नाज्ञानं सम्यग्ज्ञानप्रागभावो नापि मिथ्याज्ञानं किन्तु ताभ्यामर्थान्तरमेव मायाविद्यादिपर्यायप्रतिपाद्यमिति । तन्न हृदयङ्गमम् । भवदभिमतमायास्वभावाज्ञानसद्भावे प्रमाणाभावात् । तस्मादसुन्दरमुच्यते । शुक्तयविद्याजनितं रजतं २५ भ्रमज्ञाने परिस्फुरतीति ।
"Aho Shrut Gyanam"
-