________________
प्रमाणनयतत्त्वालोकालङ्कारः
[परि. १ सु. ११
द्वैतसिद्धिप्रसङ्गः । यदपि प्रस्तुतरजतज्ञानस्य रजतगोचरतासाधनायविवादापन्नं रजतसंवेदनं रजतगोचरमेव तदाकारत्वादित्यनुमानमवादि । तदपि प्रत्यभिज्ञाविप्रतिक्षिप्तपक्षत्वादुपेक्षाहम् । तथाहि बाधकप्रत्ययसमनन्तरं यदेव शुक्तिशकलं कलधौतरूपेण मया प्राक्प्रत्याकलितं तदेवेदमिति प्रत्यभिज्ञानमात्मलाभमनुभवदनुभूयते । तथा विवादापन्न शुक्तिशकलं रजतज्ञानालम्बनं रजतोपायव्यतिरेकित्ये सति रजतार्थिनां प्रवृत्तिविषयत्वात् । यद्यदेवं तत्तत्तथा यथा सम्यग्रजतम् । यथोक्तसाधनसम्पन्नं च विवादापन्नं शुक्तिशकलम् । तस्माद्यथोक्तसाध्याधारमिति । तथा शुक्तिशकलं विवादास्पदरजतज्ञानालम्बनं नेदं रजतमिति प्रत्ययविषयत्वात् । यदेवं न भवति न तदेवं यथा सम्यग्रजतम् । न च न तथेदं तस्मादुक्तसाध्यसमन्वितमिति । तथा विवादापन्नं रजतसंवेदनं पुरोवर्तिशुक्तिशकलगोचरमेव तत्रैव प्रवृत्तिनिमित्तत्वाद्यद्यत्रैव प्रवृत्तिनिमित्तं तत्तगोचरमेव यथा सम्यग्रजते रजतज्ञानम् ! पुरोवर्तिन्येवं शुक्तिशकले प्रवृत्तिनिमित्तं चेदं ज्ञानं तस्मात्तद्गोचरमेवेति । अतिक्रान्तकलधौतालम्बनत्वे तु न शुक्तिकाशकले प्रवृत्तिनिमित्तत्वं स्यात् । अथातिक्रान्तकलधौतालम्बनत्वेऽप्यस्य दोषमहाम्यादतिक्रान्तकलधौतस्य शुक्तिशकलतो भेदस्याग्रहणात्तत्र प्रवृत्तिनिमित्तत्वं युज्यते । एतदप्यविचारीतरमणीयम् । यतो भेद एव । कोऽत्राभिप्रेत आयुष्मतः ।
किं वस्तुस्वरूपमात्रं परस्पराभावो व्यावर्तकधर्मयोगो वा । पौरस्त्यपक्षे २० ग्रहणस्मरणाभ्यां पुरोवर्तिपूर्वानुभूतवस्तुम्वरूपग्राहिभ्यां भेदो गृहीत
एव । अन्यथाकारं वा ग्रहे विपरीतख्यातिरेव स्यात् । द्वितीयस्तु पक्षः प्रभाकरैरभावानङ्गीकारादनभ्युपगत एव । अभ्युपगमे वा विपणिवीथ्यादाववगतस्य रजतस्य मुक्ताकरतीरगतशुक्तिकायामभावः स्फुट
एव । अनियतदेशं विगलिततद्विशेष रजतं स्मृतं तदभावश्च नात्रा२५ धिगत इति चेत् । हन्त पूर्वमनियतदेशमेव रजतमात्रमामासितम् ।
दोषवशाद्वा नियतदेशमप्यवगतमनियतदेशतया स्मर्यते । न तावदाद्यः
"Aho Shrut Gyanam"