SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ परि १ सू० ११] स्याद्वादरत्नाकरसहितः मालम्बनम् । रजतमिति तु बोधस्य व्यवहितं हट्टपट्टादिव्यवस्थितं रजतम् । रजताकारं हि संवेदनं रजतगोचरमेव युज्यते न शुक्तिशकलालम्बनम् । अन्याकारस्य संवेदनस्यान्यालम्बनत्वानुपपत्तेः । तदुपपत्तौ च समस्तप्रतिभास: सकलालम्बनः स्यादित्यशेषस्याशेषदर्शित्वप्रसक्तिः । प्रयोगो विवादापन्नं रजतसंवेदनं रजतगोचरमेव तदाकार - त्वात् । यद्यदाकारं संवेदनं तत्तद्गोचरमेव यथा स्तम्भाकारं स्तम्भगोचरमेवेति । यदि चान्याकारमपि संवेदनमन्यगोचरं स्यात्तदाऽस्य स्वार्थव्यभिचारतः सर्वत्राप्यविश्रम्भान्न कस्यापि क्वचन प्रवृत्तिर्निवृत्तिवी कुतश्चिद्भवेदित्यखिलव्यवहारप्रलयप्रसङ्गः । तस्माद्रजताकारसंवेदनं रजतगोचर मेवाङ्गीकर्त्तव्यम् । तदा च तत्र न रजतं पुरतः १० स्थितं समस्तीत्यतीतमेव तत्स्मर्यत इति पारिशेष्यात्प्रसिद्धम् । तथाहि । न तावद्राजतनयनसम्प्रयोगसमुपजातमेव तद्रजतज्ञानमिति साम्प्रतम् । अतिविप्रकृष्टविषये सन्निकर्षासम्भवादिन्द्रियाणाम् । असति च लिङ्गाछुपलम्भे जायमानस्यास्यानुमानादिभावो न शङ्कितुमपि शक्यः । ततः परिशेषतः स्मरणमेवैतदाश्रयणीयम् । अपि चेदं स्मरणमनाकलितरजतस्य १५ प्रतिपत्तुरनुत्पद्यमानत्वात् । यदित्थं ततथा यथोभयवाद्यविवादास्पदरजतस्मरणम् । न चेदं वाच्यं न स्मरणमिदं तदंशवैधुर्यात्सम्प्रतिपन्नग्रहणवदिति । इह भूतले घटो नास्तीत्यनुल्लिखिततदंशस्यापि स्मरणस्य स्वीकरणात् । भूयसां च पदपदार्थस्मरणानामनुल्लिखिततदंशानामेवोपलम्भात् । अथेदं प्रेर्यते यद्यतीतं रजतमत्र स्मर्यते तदा - २० स्वातीततया प्रतिभासः स्यान्न चासावस्ति । एतदपि सुकुमारशेमुषीविलसितम् । यतः काचकामलप्रमुखकरणे द्भवदोषसमूह माहात्म्यावर्तमानस्य शुक्तिश कललक्षणार्थस्य ग्राहकं ज्ञानं शुक्तिलक्षणमर्थं शुक्तिकेयमिति स्वस्वरूपेण प्रतिपत्तुमसमर्थं शुक्तित्वलक्षणासाधारणधर्मस्य रजताच्छुक्तेर्भेदकस्यानेनाग्रहणात् चाकचक्यादिसाधारणधर्मात्मना २५ तु रजतान्वयिना पुरस्थितं वस्तु रजतादगृहीतभेदं प्रतिपद्यमानं रजत "Aho Shrut Gyanam" १०५
SR No.009662
Book TitleSyadvada Ratnakar Part 1
Original Sutra AuthorVadidevsuri
AuthorMotilal Laghaji
PublisherMotilal Laghaji
Publication Year
Total Pages274
LanguageSanskrit
ClassificationBook_Devnagari, Metaphysics, & Philosophy
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy