SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ परि. १. सू ११] स्याद्वादरत्नाकरसहितः उल्लेखार्थः । उदाहरणसूत्रं चेदमन्येषामपि प्रत्यक्षयोग्यविषयविपर्ययाणां तदितरप्रमाणयोग्यविषयविपर्ययाणां चोपलक्षणार्थम् । तथाहि । बाप्पपांसुपटलमशकवर्तिप्रभृतिभिः कुतोऽपि भ्रान्तिनिबन्धनाडूमत्वेनावधारितैर्द्धनञ्जयविनिर्मुक्तेऽपि प्रदेशे तत्परिज्ञानमनुमानविपर्ययः । निबिडकुदर्शनाभ्यासाविर्भूतभावनाप्रभावाचागमविपर्ययोऽपि सम्भवति । ५ तद्यथा-- स्याद्वादन्यायबाह्येषु शाक्यनैयायिकमीमांसककापिललौकायतिक ... संसारमोचकादिशास्त्रेषु यत्किञ्चिदेकान्ताभिशाक्यादिमतानेर्देशः । सोनोपदिश्यते तत् प्रमाणमिति ज्ञान तेषां विपर्ययः । तथाहि । क्षणिकाक्षणिके वस्तुनि सर्वथा क्षणभङ्गुर- १० स्वाभिमतिर्विपर्ययः शाक्यभिषणाम् । भिन्नाभिन्नयोर्द्रव्यपर्याययोर्भेदैकान्ताहंकृतिविपर्ययो नैयायिकानाम् । नित्यानित्यात्मके शब्दे सर्वथा नित्यत्वमतिर्विपर्ययो मीमांसकानाम् । कर्त्तर्यात्मन्यकर्तृताप्रतीतिविपर्ययः कापिलानाम् । सत्सु स्वर्गापवर्गात्मधर्मादिषु वस्तुषु नास्तिताप्रतिपत्तिर्विपर्ययो लोकायतानाम् । अधर्मनिबन्धने प्राणिवधे धर्म- १५ निबन्धनत्वबुद्धिविपर्ययः संसारमोचकानाम् । तथा स्याद्वादिनामपि केषाञ्चित् प्रचुरतरपापोदयादागमविपर्ययः सम्भवति । यथोपपद्यमानमुक्तौ स्त्रीजातौ मुक्त्यभावाभिमानः संभाव्यमानभुक्तौ भगवति केविलिनि मुक्त्यभावकदाग्रहश्च विपर्ययः क्षपणकानाम् । विपर्ययत्वं चैषामशेषाणामपि कदभिप्रायाणां प्रमाणैः प्रतिहन्यमानत्वादवगन्तव्यमिति । २० अस्यां समस्ति विपरीतमतौ मतानां भेदः परैः स्वरुचिभिः परिकल्पितानाम् । तत्र प्रभाकरमतानुगता विवेक___ ख्यातिं विवेकविकलाः परिकल्पयन्ति ॥ ९१ ॥ १ संसारमोचका:-ब्रह्माद्वैतवादिनः । एतेऽपि चित्तशुद्धयर्थं प्राणिवधमययज्ञानभिमन्यन्ते । २. दिगम्बराणाम् । "Aho Shrut Gyanam"
SR No.009662
Book TitleSyadvada Ratnakar Part 1
Original Sutra AuthorVadidevsuri
AuthorMotilal Laghaji
PublisherMotilal Laghaji
Publication Year
Total Pages274
LanguageSanskrit
ClassificationBook_Devnagari, Metaphysics, & Philosophy
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy