SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ पृष्ठ क्र. २५ ॥३२॥ दशमपर्वान्तर्गतानि सुभाषितानि । सुभाषितम् । प्राच्यं कर्माऽन्यथा कर्तुं यद्वाऽर्हन्तोऽपि नेशते । गुरूणां किल संसर्गाद्गौरवं स्याल्लघोरपि । अर्हज्जन्म हि मोक्षाय भवभाजां भवादपि । परिग्रहो हि दारादेर्भवभ्रमणकारणम् । राज्ञां हि वचसाऽर्थः स्यान्मनसा धुसदामिव । रम्या स्यादर्धकथिता कथा । धिक् प्रतिष्ठाच्युतं नरम् । पूज्यः सर्वत्र पूज्यते । स्वदर्यामेव शौर्य हि गोमायोर्न पुनर्बहि । सुवर्णेनापि किं तेन कर्णच्छेदो भवेधतः । ही विपाकः कुकर्मणाम् । क्रोधस्तीव्रानुबन्धो हि सह याति भवान्तरे । महानपि मरुमेरुं किं कम्पयितुमीश्वरः ? परेषामुपकाराय महतां हि प्रवृत्तयः । वैरं हि ऋणवत्पुंसां जन्मान्तरशतानुगम् । स्नेहे ह्यद्वैतमानिता। सेव्यस्य सेवावसरः पुण्येनैव हि लभ्यते । | १० ११ १२ ४॥ १४ ॥३२॥
SR No.009659
Book TitleTrishashti Shakala Purush Charitam Part 6
Original Sutra AuthorHemchandracharya
Author
PublisherJinshasan Aradhana Trust
Publication Year2004
Total Pages458
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size78 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy