SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ चतुर्थं पर्व प्रथमः त्रिषष्टिशलाकापुरुषचरिते ॥३४॥ सर्गः श्रेयांसजिनचरितम्। 2862828282828282828282828286 तां दृष्ट्वोद्यौवनां राजा वरान्वेषणकर्मणि । चिन्ताप्रपन्नः समभूद् ऋणमग्नः पुमानिव ॥ ४३४ ॥ विसृज्य सप्रसादं तां वरं तदुचितं नृपः । सुश्रुतादीन् समाहूय परिपप्रच्छ मन्त्रिणः ॥ ४३५ ॥ अथाऽऽदौ सुश्रुतोऽवादीदस्ति रत्नपुरे पुरे । राजा नीलाञ्जनादेवी-मयूरग्रीवयोः सुतः ॥४३६ ॥ स साधितानेकविद्यास्त्रिखण्डभरतेश्वरः । विद्याधरेन्द्रोऽश्वग्रीवाभिधानः प्रवरो वरः॥४३७॥ मन्त्री बहश्रुतोऽप्यूचे समतिक्रान्तयौवनः । स्वयम्प्रभायाः स्वामिन्या न योग्यः खल्वयं वरः॥४३८॥ तिष्ठन्ति चोत्तरश्रेण्यां बहवो बाहुशालिनः । रूप-यौवन-लावण्यवन्तो विद्याधरोत्तमाः ॥ ४३९ ॥ तेषां च मध्यादेकस्य कस्याप्येषा मृगेक्षणा । विचार्य दीयतां देवानुरूपं योगमिच्छता ॥ ४४०॥ अथाऽऽबभाषे सुमति म मन्त्री महीपतिम् । युक्तमुक्तमनेनेदमायुक्तेन तव प्रभो ! ॥ ४४१ ॥ अत्राद्रावुत्तरश्रेणिहारनायकतां गता। प्रभङ्करा नाम नगर्यनेकाद्भुततैकभू : ॥ ४४२ ॥ ओजो दधन् माघवनं तत्र मेघवनाभिधः । प्रातर्मेघ इवामोघः समस्ति पृथिवीपतिः ॥ ४४३ ॥ सधर्मचारिणी तस्य नामतो मेघमालिनी । मालतीपुष्पमालेव शीलसौरभणालिनी ॥ ४४४ ॥ अस्ति विद्युत्प्रभो नाम नामिताशेषभूपतिः । कन्दर्प इव रूपेणाप्रातरूपेण तत्सुतः ॥ ४४५ ॥ तयोरस्ति च दहिता ज्योतिर्मालेति नामतः । देवकन्येव निःसीमरूपलावण्यसम्पदा ॥४४६॥ विद्युत्प्रभकुमारस्योचिता देवी स्वयम्प्रभा । विद्युद् वारिधरस्येव द्युतिद्यौतितदिङ्मुखा ॥४४७॥ १ उद्यौवना-विकसमानावना । गस्त्यनका ! २ अनेकाश्चर्यकरपदार्थस्थानम् । ३ इन्द्रसम्बन्धि । ४ अमोघ :- सफलः . भशालि । 28282828282828282828282828 त्रिपृष्ठवासु देव-अचलबलदेवादीनां चरितम्। ॥३४॥
SR No.009656
Book TitleTrishashti Shakala Purush Charitam Part 3
Original Sutra AuthorHemchandracharya
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages524
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy