SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टिशलाकापुरुषचरिते ॥२२॥ चतुर्थं पर्व प्रथमः सर्गः श्रेयांस जिनचरितम्। 28282828282828282828282888 राजाऽप्युवाच चाटूक्तिरियं भोः ! न तु वास्तवम् । बलिनो यद् बलिभ्योऽपि बहरत्ना हि भूरियम् ॥२७६ ॥ ततश्च तेषु कोऽप्येकः सचिवश्चारुलोचनः । वाचस्पतिरिवोवाच वाचा स्फुटयथार्थया ॥ २७७ ॥ प्रजापतिनपस्य स्त : कमारावमरोपमौ । मर्त्यवीरान मन्यमानौ तणाय सकलानपि ॥२७८ ॥ सभां विसज्य राजाऽथ विससर्ज प्रजापतेः । अन्तिके चण्डवेगं तं दूतमर्थेन केनचित् ॥ २७९ ॥ रथिभिः सादिभिः सारैः ससार कतिभिर्दिनैः । दूतः स पोतनपुरं स्वामितेज इवाङ्गवत् ॥ २८० ॥ तत्र प्रजापतिनृपः सर्वालङ्कारभूषितः । सहाऽचल-त्रिपृष्ठाभ्यां सामन्तैरप्यनेकशः ॥ २८१ ॥ सेनापति-महामात्य-पुरोधःप्रमुखैरपि । वृतः प्रधानपुरुषैर्यादोभिरिव पाशभृत् ॥ २८२ ॥ विचित्रचारीकरणा-ऽङ्गहारोद्वृत्तनर्तकम् । ध्वनन्मृदङ्गनिर्घोषघोषितव्योमकन्दरम् ॥ २८३ ॥ सुव्यक्तगीतोद्गारेण सञ्जीवापितवेणुकम् । विपञ्चितग्राम-रागविपञ्चीरचितश्रुति ॥ २८४ ॥ तालानुसारैः प्रक्रान्तगीतसङ्गीतकं तदा । निःशङ्ककारयन्नासीन्महर्द्धिक इवामरः ॥ २८५ ॥ ॥पञ्चभिः कुलकम् ॥ अनिषिद्धगतिःस्थैर्विद्युद्दण्ड इवोच्चकैः । तत्राऽऽस्थाने प्रविवेश चण्डवेगो झटित्यपि ॥ २८६ ॥ अकस्मादागतं दृष्ट्वा ससामन्तः प्रजापतिः । स्वामिवत् स्वामिदूतं तमभ्युदस्थात् ससम्भ्रमम् ।। २८७ ॥ 28282828282828282828282828 त्रिपृष्ठवासु देव-अचलबलदेवादीनां चरितम्। ॥२२॥ १वीरान् तृणतुल्यान् मन्यमानौ । २ सादिन : अश्ववारा: ।३ ससार-जगाम । ४ जलदेवरूप : वरुण: ।५ चारीकरणंगत्या अभिनयः । अङ्गहार: | शारीरिकः अभिनयः । उद्धृत्तम् प्लुतं गमनम् । ६ सञ्जीवापित०-चेतनावत्कृत०।७ विपञ्चितः विस्तीर्ण :। ८ विपञ्ची-वीणा।
SR No.009656
Book TitleTrishashti Shakala Purush Charitam Part 3
Original Sutra AuthorHemchandracharya
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages524
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy