SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ चतुर्थं पर्व प्रथमः त्रिषष्टिशलाकापुरुषचरिते ॥१०॥ सर्गः श्रेयांस जिन चरितम् । 282828282828282828282828286 विशाखनन्दी क्रीडेच्छुस्तत्र राजसुतोऽप्यभूत् । तत्तूद्यानं न जात्वासीद् रहितं विश्वभूतिना ॥११६ ॥ | विशाखनन्दिजननीदास्यः पुष्पार्थमागताः । तत्रापश्यन् विश्वभूति क्रीडन्तं सप्रियाजनम् ॥ ११७ ॥ सेाः प्रियङ्गदेवीं ताः समुपेत्येदमूचिरे । यौवराजिर्विश्वभूतिरेव राजेह नापरः ॥ ११८ ॥ सान्तःपुरोऽपि हि सदोद्याने पुष्पकरण्डके । स क्रीडति बहिस्ते तु सुतस्तिष्ठति वारित : ॥११९ ॥ तच्छ्रुत्वा कुपिता देवी प्राविशत् कोपवेश्मनि । किमेतदिति सा सद्यो राज्ञा पृष्टाऽब्रवीदिदम् ॥ १२० ॥ राजेव रमते विश्वभूतिः पुष्पकरण्डके । त्वयि सत्यपि मे सूनुर्बहिस्तिष्ठति रडूवत् ॥ १२१॥ राजाऽप्यूचे व्यवस्थेयं कुलेऽस्माकं हि मानिनि!। क्रीडत्येकस्मिन् कुमारे द्वितीयः प्रविशेन्न हि ॥१२२ ॥ इत्याख्यातेऽपि भूपेन सा नाऽबुद्ध मनस्विनी । उपायज्ञस्ततो राजा यात्राभेरीमवादयत् ॥१२३ ॥ आज्ञां पुरुषसिंहाख्यः सामन्तो न करोति नः । इति तस्मै प्रस्थिताः स्म इत्युक्तिं च नृपोऽकरोत् ॥१२४॥ तच्छ्रुत्वा सम्भ्रमाद् विश्वभूतिरेत्याऽब्रवीदिदम् । मयि सत्यपि किं तातः स्वयं युद्धाय यास्यति ? ॥१२५ ॥ इत्याद्युक्त्वा सनिर्बन्धं निवार्य पृथिवीपतिम् । विश्वभूतिर्बलयुतस्तत्सामन्तभुवं ययौ ॥ १२६ ॥ श्रुत्वा कुमारमायान्तं स सामन्तः ससम्भ्रमम् । अभ्ये वेद् भक्त्या निनाय निजवेश्मनि ॥१२७ ॥ स्वामिन् ! किं करवाणीति वदन्नग्रे कृताञ्जलि : । हस्त्यश्वायुपदादानाद् विश्वभूतिमरञ्जयत् ॥१२८ ॥ विरुद्धादर्शनाद् विश्वभूतिर्निववृते ततः । पथा यथागतेनैव को हि कुप्येदनागसे? ॥१२९ ॥ इतश्च विशाखनन्दी राज्ञोद्याने प्रवेशितः । देशं भ्रान्त्वा विश्वभूतिरप्यागात् तत्र पूर्ववत् ॥१३० ॥ १ युवराजपुत्रः । २ उपदा-उपायनम् । ३ निरपराधाय । 2828282828282828282828A WAR त्रिपृष्ठवासुदेव-अचल बलदेव अश्वग्रीव| प्रतिवासुदेव चरितम्। ॥१०॥
SR No.009656
Book TitleTrishashti Shakala Purush Charitam Part 3
Original Sutra AuthorHemchandracharya
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages524
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy