SearchBrowseAboutContactDonate
Page Preview
Page 456
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टिशलाकापुरुषचरिते ॥३९॥ षष्ठं पर्व तृतीयः सर्गः आनन्द वासुदेवपुरुष पुण्डरीकबलदेव बलि-प्रतिवासुदेव चरितम् । (तृतीयः सर्गः । आनन्द-पुरुषपुण्डरीक-बलिचरितम् ।) अथ तीर्थेऽरनाथस्य षष्ठयोर्बलशाह्मिणोः । प्रतिविष्णोर्बलेश्चाभूद्यच्चरित्रं तदुच्यते ॥१॥ पुरेऽभूद्विजयपुरे नृपो नाम्ना सुदर्शनः । सुदर्शनश्चन्द्र इव जगदानन्ददायकः ।। २ ।। मुनेर्दमधराज्जैनं श्रुत्वा धर्म विरक्तधीः । स प्रव्रज्य तपस्तप्त्वा सहस्रारेऽभवत्सुरः ।। ३ ॥ तथेह भरतक्षेत्रे पोतने नगरे नृपः । प्रियमित्रोऽभवन्मित्राब्जेषु मित्रोदयोपमः ।। ४ ।। सुकेतुस्तत्प्रियां जहे विरक्तस्तत्पराभवात् । वसुभूतिमुनेः पार्वे स प्रव्रज्यामुपाददे ।। ५ ॥ प्रियाहरणदुःखार्तः स तेपे दुस्तपं तपः । निदानं चाकरोत्पत्नीहारकस्य वधं प्रति ॥ ६ ॥ स निदानमनालोच्य विहितानशनो मृतः । समजायत माहेन्द्रे कल्पे देवो महर्द्धिकः ॥७॥ इतश्च वैताह्यगिरौ पुरेऽरिञ्जयनामनि । सुभूमचक्रिणा दत्तश्रेणिद्वितयवैभवः ॥८॥ तस्यैव चक्रभृत्पल्या नाम्ना पद्मश्रियः पिता । मेघनाद इति ख्यातो विद्याधरनृपोऽभवत् ।।९।।।। युग्मम्।। स सुकेतोर्भवं भ्रान्त्वा जीवस्तत्रैव पत्तने । अन्वये मेघनादस्य प्रतिविष्णुरभूदुबलिः ।।१०।। स पञ्चाशद्वर्षसहस्रायुः श्वेतेतरघुतिः । षड्विशतिधनूत्तुङ्गस्त्रिखण्डक्ष्माधरोऽभवत् ।। ११ ॥ अथास्य जम्बूद्वीपस्य भरतार्धेऽत्र दक्षिणे । पुरमस्ति चक्रपुरं महीमण्डलमण्डनम् ।। १२ ॥ १ सुष्ठु दर्शनं यस्य सः । २ मित्राण्येव कमलानि तेषु । ३ मित्रः सूर्यः । पूर्वभवः । ||॥३९॥
SR No.009656
Book TitleTrishashti Shakala Purush Charitam Part 3
Original Sutra AuthorHemchandracharya
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages524
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy