SearchBrowseAboutContactDonate
Page Preview
Page 429
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टिशलाका पुरुषचरिते 1193 11 विपद्य कालयोगेन समाहितमनाः स तु । नवमग्रैवेयकेऽभूदमरः परमर्द्धिकः ।। १२ ।। इतश्च जम्बूद्वीपस्यास्यैव क्षेत्रे च भारते । समस्ति हास्तिनपुरं पुरं परमऋद्धिकम् ।। १३ ।। जानोऽपि प्रजायन्ते तत्र सेवार्थमागताः । दिव्यवाहननेपथ्या राजयन्ते प्रजाः पुनः ।। १४ ।। विभाति तत्र परिखा परितो वलयाकृतिः । श्रियः स्थैर्यकृते दत्ता स्वाज्ञालेखेव वेधसा ।। १५ । हैमस्फाटिकनैलानि तत्र चैत्यान्यनेकशः । शृङ्गाणि मेरुकैलासाञ्जनाद्रीणामिवाबभुः ।। १६ ।। सुदर्शनश्चन्द्र इव तत्र नाम्ना सुदर्शनः । अभूद्भूमिभुजां प्रष्ठः सुराणामिव वृत्रहा ।। १७ ।। तस्यासने वा तल्पे वा गृहे वा बहिरेव वा । धर्मोऽनुज्झितसान्निध्यः प्रियमित्रमिवाभवत् ।। १८ ।। सिद्धमन्त्रोपमे तस्य प्रतापे परिसर्पति । प्रक्रियामात्रमेवासीच्चतुर्धा सैन्यसंग्रहः ।। १९ ।। गृहाङ्गणरजस्तस्य शमयामासुरन्वहम् । घनैर्मदजलासारैर्नृपोपायनदन्तिनः ॥ २० ॥ देवी नाम महादेवी कापि देवीव चागता । अन्तःपुरशिरोरत्नमभवत्तस्य वल्लभा ।। २१ ।। पं प्रणयेनापि पत्यौ जातु चकार सा । सपत्नीष्वपि मात्सर्यं प्रकृत्यार्या दधार न ।। २२ ।। पतिप्रसादसौभाग्यादीनि तस्या मदाय न । सा तथापि हि संजज्ञे प्रमदासु शिरोमणिः ।। २३ ।। तस्याश्च निरवद्याङ्ग्या लावण्यसरितः खलु । अदृश्यत प्रतिच्छन्दो दर्पणेष्वेव नान्यतः ॥ २४ ॥ १ प्रजा इवाचरन्ति । २ नैलानि नीलमणिमयानि । ३ मेरुशृङ्गसादृश्यं हैमचैत्यानामेवमनुक्रमेण ज्ञेयम् । ४ शोभनं दर्शनं यस्य सः । ५ श्रेष्ठः । ६ प्रकृष्ट यासां तासु शिरोमणिरिति विरोधः । प्रमदासु युवतिष्विति तत्परिहारः । षष्ठं पर्व द्वितीयः सर्गः श्रीअरनाथ जिनचरितम् । हास्तिन पुरे सुदर्शन नृपः । ॥१२॥
SR No.009656
Book TitleTrishashti Shakala Purush Charitam Part 3
Original Sutra AuthorHemchandracharya
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages524
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy