SearchBrowseAboutContactDonate
Page Preview
Page 428
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टि शलाका पुरुषचरिते 1199 11 द्वितीयः सर्गः । श्रीअरनाथजिनचरितम् इक्ष्वाकुवंशतिलकश्चारुगोरोचनाद्युतिः । चतुर्थारसरोहंसः पायादरजिनेश्वरः ॥ १ ॥ त्रिजगत्कुमुदानन्दचन्द्रस्य परमेष्ठिनः । श्रीमतोऽरजिनेन्द्रस्य वक्ष्ये चरितमुज्ज्वलम् ॥ २ ॥ अस्यैव जम्बूद्वीपस्य प्राग्विदेहेषु विस्तृते । सीतानद्युत्तरतटे विजये वत्सनामनि ॥ ३ ॥ सुसीमायां महापुर्यां निःसीमा शौर्यसंपदाम् । नृपो धनपतिर्नामाभवद्धर्मयशोधनः ।। ४ ।। बन्धनं ताडनं चाङ्गखण्डनं दण्डनादि च । नाभूत् कस्यापि तत्राज्ञासारे शासति मेदिनीम् ।। ५ ।। मिथोऽसंजातकलहैर्वत्सलैश्च मिथो जनैः । सकलापि मही तस्मिन् यत्याश्रम इवाभवत् ॥ ६ ॥ मनःसरोवरे तस्य दयावारितरङ्गिते । चिक्रीड निर्भरं हंस इव धर्मों जिनोदितः ॥ ७ ॥ विरक्तः सोऽथ संसारादसाराद्विश्वसारधीः । अन्तिके संवरमुनेः प्राब्राजीदात्तसंवरः ॥ ८ ॥ स व्रतं पालयंस्तीव्रं तप्यमानस्तपांसि च । विजहार महीमात्तविविधाभिग्रहः सुधीः ।। ९ ।। चतुर्मासोपवासान्तपारणे प्रत्यलाभयत् । श्रेष्ठिपुत्रो जिनदासः श्रद्धया तं महामुनिम् ।। १० ।। अर्हदराधनाद्यैश्च स्थानैर्धनपतिर्मुनिः । आर्जयत्तीर्थकृन्नाम कर्म कर्मद्विषन्नपि ॥ ११ ॥ १ चतुर्थार एव सरस्तस्मिन् हंससदृशः । २ नितरां सीमारूपः । ३ आझैव सारो यस्य तस्मिन् तत्र राज्ञि । ४ गृहीतसंवरः । ५ कर्मशत्रुरपि । षष्ठं पर्व द्वितीयः सर्गः श्रीअरनाथ जिनचरितम् । पूर्वभवः । 1199 11
SR No.009656
Book TitleTrishashti Shakala Purush Charitam Part 3
Original Sutra AuthorHemchandracharya
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages524
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy