SearchBrowseAboutContactDonate
Page Preview
Page 418
Loading...
Download File
Download File
Page Text
________________ [प्रथमः सर्गः । षष्ठं पर्व प्रथमः त्रिषष्टिशलाकापुरुषचरिते ॥१॥ श्रीकुन्थुस्वामिचरितम् । सर्गः श्रीकुन्थुस्वामि चरितम् । पूर्वभवः । जयन्ति जयिनः कुन्थुस्वामिनो देशनागिरः । महामोहदृषद्भेदसरित्पूरसहोदराः ।। १ ॥ त्रैलोक्यस्वामिनः कुन्थोश्चरित्रं वच्मि पावनम् । संसाराम्भोधिमथने मंथनाचलसन्निभम् ॥ २ ॥ अस्यैव जम्बूद्वीपस्य प्राग्विदेहेषु सुन्दरे । आवर्तनाग्नि विजये कृतस्वर्विजये श्रिया ॥३॥ महापुर्यां खड्गिनाम्न्यां निःसीमगुणभाजनम् । सीमा धर्मधुरीणानां राजा सिंहावहोऽभवत् ।। ४ ।। आधार इव धर्मस्य कुठार इव पाप्मनः । न्यायस्य कुलवेश्मेव सुधियां जन्मभूरिव ।। ५ ।। तस्य मन्त्रो मन इव दुर्लक्षो विदुषामपि । शक्रस्येव प्रभुत्वं चोत्साहश्चाभूद्धरेरिव ।। ६ ॥ अनुल्लचितमर्यादः समुद्र इव स स्वयम् । मर्यादायां जगदपि धारयामास शक्तिमान् ॥ ७ ॥ १ जयशीलस्य । २ महामोह एव पाषाणस्तस्य भेदे नदीपूरसमानाः । ३ मन्दराचलसदृशम् । ४ कृतः स्वर्गस्य जयो येन तस्मिन् ।
SR No.009656
Book TitleTrishashti Shakala Purush Charitam Part 3
Original Sutra AuthorHemchandracharya
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages524
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy