SearchBrowseAboutContactDonate
Page Preview
Page 352
Loading...
Download File
Download File
Page Text
________________ | चतुर्थः सर्गः ।। त्रिषष्टिशलाकापुरुषचरिते ॥८५॥ पञ्चमं पर्व चतुर्थः सर्गः श्रीशान्तिनाथजिनचरितम् । RSSASSASSASSASS अथास्य जम्बूद्वीपस्य प्राग्विदेहेषु विस्तृते । विजये पुष्कलावत्यां सीतायाः सरितोऽन्तिके ॥१॥ मध्यखण्डस्य मध्येऽस्ति नगरी पुण्डरीकिणी । श्रियो निधानमद्वैतं सरोऽन्तः पुण्डरीकवत् ॥२॥ ॥युग्मम् ॥ तस्यां घनरथो राजा खण्डितारिमनोरथम् । अभून्महारथप्रेष्ठो भूमिष्ठ इव वासवः ॥ ३ ॥ तस्याभूतामुभे पल्यौ गङ्गासिंधू इवाम्बुधेः । एका प्रियमतिर्नाम द्वितीया तु मनोरमा ॥ ४ ॥ वज्रायुधस्य जीवोऽपि च्युत्वा ग्रैवेयकादथ । प्रियमत्या महादेव्या उदरे समवातरत् ॥५॥ तदा च रजनीशेषे स्वप्नान्तर्ददृशे तया । वर्षन गर्जस्तडिन्माली मेघोऽन्तर्वदनं विशन् ॥६॥ तया तं प्रातराख्यातं स्वप्न व्याख्यन्महीपतिः । पृथ्वीसंतापहृन्मेघ इव भावी तवात्मजः ॥७॥ सहस्रायुधजीवोऽपि च्युत्वा ग्रैवेयकात्ततः । मनोरमामहादेव्याः कुक्षौ समवतीर्णवान् ॥८॥ तयापि ददृशे स्वप्ने स्वमुखान्तर्विशन् रथः । सौवर्णकिङ्किणीमाली पैताकी लोहनेमिकः ॥९॥ तयापि स्वप्नमाख्यातं व्याचख्याविति भूपतिः । सूनुर्महारथप्रष्ठस्तव देवि भविष्यति ॥ १०॥ समये सुषुवाते ते क्रमेण तनयावुभौ । मूर्त्यन्तरमिव प्राप्तौ दिवाकरनिशाकरौ ॥११॥ १ कमलवत् । २ प्रष्ठः श्रेष्ठः । ३ विद्युतां मालाः सन्त्यस्य । ४ ध्वजयुक्तः । ५ नेमिश्चक्रधारा । वजायुधस्यमेघरयत्वेन जन्म। ॥८५॥
SR No.009656
Book TitleTrishashti Shakala Purush Charitam Part 3
Original Sutra AuthorHemchandracharya
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages524
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy