SearchBrowseAboutContactDonate
Page Preview
Page 305
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टि शलाका पुरुषचरि ॥३८॥ राजापि व्याजहाराथ देवि देव इव श्रिया । लोकोत्तरबलो भावी बलभद्रस्तवात्मजः ।। १३॥ निधानं रत्नगर्भेव मुक्तां वंशलतेव च । तं गर्भं धारयामास ततो देवी वसुन्धरा ।। १४ ।। श्रीवत्साङ्कं श्वेतवर्णं पूर्णावयवलक्षणम् । समये सुषुवे सूनुं महादेवी वसुन्धरा ।। १५ ।। पुत्रस्य जन्मना तेन राजा स्तिमितसागरः । मुमुदे पार्वणस्येन्दोरुदयेनेव सागरः ।। १६ ।। दिवसे द्वादशे प्राप्ते द्वादशादित्यतेजसः । अपराजित इत्याख्यां तस्य सूनोर्व्यधात्पिता ।। १७ ।। पश्यंश्चुम्बन् समाश्लिष्यन्नङ्के चारोपयन् सुतम् । न व्यरंसीन्नृपो जातु प्राप्तं धनमिवाधनः ।। १८ ॥ इतश्च सुस्थितावर्ताज्जीवः श्रीविजयस्य तु । प्रच्युत्यानुद्धरादेव्याः कुक्षाववततार सः ।। १९ ।। शयानया निशाशेषे विशन्तो वदने निजे । देव्यानुद्धरया सप्त स्वप्ना ददृशिरे तदा ॥ २० ॥ तत्रादौ केशरियुवा कुंकुमारुणकेसरः । इन्दुलेखानिभनखश्चमरोपमवालधिः ॥ २१ ॥ कुञ्जराभ्यां पूर्णकुम्भहस्ताभ्यां क्षीरवारिभिः । क्रियमाणाभिषेका च पद्मा पद्मासनस्थिता ॥ २२ ॥ ध्वंसमानो महाध्वान्तं दोषापि जनयन्नहः । उद्दण्डतेजःप्रसरस्त्विषामधिपतिस्ततः ।। २३ ।। स्वच्छस्वादुपयः पूर्णः पुण्डरीकार्चिताननः । सुवर्णघटितः पुष्पमाली कुम्भस्ततोऽपि च ॥ २४ ॥ नानाजलचराकीर्णो रत्नसंभारभासुरः । गगनोदञ्चिकल्लोलस्ततः कल्लोलिनीपतिः ।। २५ ।। पञ्चवर्णमणिज्योतिःप्रसरैर्गगनाङ्गणे । विपञ्चितेन्द्रचापश्री रत्नानां संचयस्ततः ।। २६ ।। १ पूर्णिमासम्बन्धिनश्चन्द्रस्य । २ रात्रिरपि । ३ सूर्यः । ४ पुष्पाणां मालाः सन्ति अस्य । ५ नदीपतिः समुद्रः । ६ विस्तारिता इन्द्रधनुषः शोभा येन सः । पञ्चमं पर्व द्वितीयः सर्गः श्री शान्तिनाथजिन चरितम् । अमिततेजसः बलदेवत्वे नोत्पत्तिः । 1132 11
SR No.009656
Book TitleTrishashti Shakala Purush Charitam Part 3
Original Sutra AuthorHemchandracharya
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages524
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy