SearchBrowseAboutContactDonate
Page Preview
Page 303
Loading...
Download File
Download File
Page Text
________________ पञ्चम पर्व प्रथमः त्रिषष्टिशलाकापुरुषचरिते ॥३६॥ राज्यं स्वपुत्रयोय॑स्योपाददाते नरेश्वरौ । ततोऽभिनन्दनजगन्नन्दनयोः पुरो व्रतम् ॥ ४८८ ॥ पादपोपगमं नामानशनं तौ च चक्रतुः । तदानीं च श्रीविजयः सस्मार पितरं निजम् ।। ४८९ ।। तदृद्धिमधिकां स्वां तु ऋद्धि हीनां विचिन्तयन् । भूयासं तादृगेवाहं निदानमिति चाकरोत् ।। ४९० ॥ कृताकृतनिदानौ श्रीविजयामिततेजसौ । विपद्य प्राणते कल्पे बभूवतुरथामरौ ।। ४९१ ॥ विमाने सुस्थितावर्ते नन्दितावर्तके च तौ । मणिचूलदिव्यचूलनामानौ तस्थतुः सुखम् ।। ४९२ ।। अमरौ रतिसागरावगाढावायुर्विंशतिसागरोपमं तौ । अतिवाहयतः स्म सौख्यमग्नौ मनसा सिद्धसमीहितार्थलाभौ ।। ४९३ ।। सर्गः श्रीशान्तिनाथजिनचरितम् । श्रीविजयामिततेजसोर्दीक्षा । इत्याचार्यश्रीहेमचन्द्रविरचिते त्रिषष्टिशलाकापुरुषचरिते महाकाव्ये पञ्चमे पर्वणि श्री शान्तिनाथदेवस्य श्रीषेणादिकभववर्णनो नाम प्रथमः सर्गः । ॥३६॥ १ तस्य पितुर्ऋद्धिम् ।
SR No.009656
Book TitleTrishashti Shakala Purush Charitam Part 3
Original Sutra AuthorHemchandracharya
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages524
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy