SearchBrowseAboutContactDonate
Page Preview
Page 247
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टिशलाका पुरुषचरिते ।। १८५ ।। REDERERERERERERERERERE DE RI कर्णमर्माविद्भिरिव मर्मरैरतिदुःश्रवैः । प्रबुद्धोत्कर्णपञ्चास्यबूत्कारेष्वप्यकम्पितः ॥ १४५ ॥ प्रत्यग्रपल्लवास्वादमात्रेणैवोदरम्भरिः । शिशिरं गमयामासांशिशिरो मित्रपीडया ॥ १४६ ॥ ॥ त्रिभिर्विशेषकम् ॥ एवं सनत्कुमारस्यान्वेषणायाटतोऽटवीम् । एको महेन्द्रसिंहस्य जगाम परिवत्सरः ॥ १४७ ॥ तस्यामटव्यामन्येद्युर्गत्वा कियदवस्थितः । दिशो विलोकयामास नैमित्तिक इवोन्मुखः ॥ १४८ ॥ ततः कारण्डवक्रौञ्चहंससारसपक्षिणाम् । क्षणादाकर्णयामास कोलाहलमनाकुलः ॥ १४९ ॥ मरुता पङ्कजामोदवाहिनाश्वासितश्च सः । सरः किञ्चिदिहास्तीति निश्चिकायानुमानतः ॥ १५० ॥ आनन्दबाष्पतोयेन निश्चिन्वन् मित्रसंगमम् । सरोवरस्याभिमुखं स ययौ राजहंसवत् ॥ १५१ ॥ गच्छन्नग्रे च शुश्राव गीतं गान्धारबन्धुरम् । मधुरं वेणुनादं च वीणाक्वाणं च हारिणम् ॥ १५२ ॥ विचित्रवस्त्रनेपथ्यरमणीमध्यवर्तिनम् । मित्रं सनत्कुमारं स ददर्श प्रियदर्शनम् ॥ १५३ ॥ प्रियसुहृत् किं मे माया कस्यापि कापि वा । इन्द्रजालमिदं किं वा हृदयान्निर्गतोऽथ मे ॥ १५४ ॥ इति सोऽचिन्तयद् यावत् तावत् कर्णरसायनम् । वैतालिकेन केनापि पठ्यमानमदोऽशृणोत् ॥ १५५ ॥ कुरुवंशसरोहंसाश्वसेनाब्धिनिशाकर! । सनत्कुमार ! सौभाग्यमनोभव ! चिरं जय ॥ १५६ ॥ जय विद्याधरवधूदोर्लतालिङ्गनद्रुम ! | आढ्यम्भविष्णो ! वैताढ्य श्रेणिद्वयजयश्रिया ॥ १५७ ॥ एवं समाकर्ण्य सनत्कुमारस्य स दृक्पथम् । जगाम ग्रीष्मसंतप्तो जलाशयमिव द्विपः ॥ १५८ ॥ १ पञ्चास्यः सिंहः । २ तप्तः । ३ मनोहरम् । DYRYDERERERERERERERERE DE RY चतुर्थं प सप्तमः सर्गः श्रीसनत्कु मारचक्रिचरितम् । सनत्कुमारान्वेषणम् । ५ ।। १८५ ।।
SR No.009656
Book TitleTrishashti Shakala Purush Charitam Part 3
Original Sutra AuthorHemchandracharya
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages524
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy