SearchBrowseAboutContactDonate
Page Preview
Page 246
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टिशलाकापुरुषचरिते ॥१८४॥ चतुर्थं पर्व सप्तमः सर्गः श्रीसनत्कुमारचक्रिचरितम् । 888888888888888888888888 पदे पदे वननदीर्वेगोन्मूलितपादपाः । दुस्तरा अप्यनायासं राजहंस इवोत्तरन् ॥१३५॥ आक्रामन् पङ्किलं मागं वराह इव लीलया । मित्रान्वेषी पर्यटन् स वर्षा अप्यत्यवाहयत् ॥१३६ ॥ ॥चतुर्भिः कलापकम् ॥ मूर्ध्नि चित्रातपं घोरं पादयोस्तप्तवालुकाः । सहमानोऽग्निशरावसंपुटान्तर्वसन्निव ॥१३७ ॥ स्वच्छे तोये तोयजेषु हंसादिषु च पक्षिषु । अविश्रान्तमनाः क्वासि क्वासि मित्रैवमुद्गुणन् ॥१३८ ॥ मंदगन्धिसप्तपर्णक्रुद्धधावितदन्तिनाम् । मध्येन गच्छन् दन्तीव वनान्तरसमागतः ॥१३९ ॥ सख्येव पवमानेन प्रेर्यमाणोऽब्जगन्धिना । अत्यगाच्छरदमपि स भ्रमन् शरदभ्रवत् ॥ १४०॥ ॥चतुर्भिः कलापकम् ॥ उत्तरेण समीरेण हिमाद्रेरिव बन्धुना । हिमसात् क्रियमाणेषु सरसीसरिदम्बुषु ॥१४१॥ दवाग्निनाऽप्यदाह्यासु दह्यमानासु सर्वतः । जलान्तःपद्मकल्हारकैरवोत्पलपङ्किषु ॥१४२ ॥ शीतार्तेषु किरातेषु दवानलमपीच्छुषु । हेमन्तमप्यतीयाय स बाढं दृढनिश्चयः ॥१४३ ॥ ॥त्रिभिर्विशेषकम् ॥ शीर्णेषु जानुदध्नेषु पुष्पपत्रेषु भूरुहाम् । छन्नाहिवृश्चिकेष्वडीन्यासं निःशङ्कमादधत् ॥ १४४ ॥ 8282828282828282828282828288 सनत्कुमारान्वेषणम्। ॥१८४॥ १ चित्रा नक्षत्रं तस्य तापः । २ कमलेषु । ३ मदो हस्तिमदस्तस्येव गन्धो यस्यैतादृशेन सप्तपर्णवृक्षण क्रुद्धा अत एव धाविताश्च ते दन्तिनश्च | तेषाम्। ४ वायुना। ५ छन्नाः सर्पाश्च वृश्चिकाश्च येषु तेषु ।
SR No.009656
Book TitleTrishashti Shakala Purush Charitam Part 3
Original Sutra AuthorHemchandracharya
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages524
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy