SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टि शलाका पुरुषचरिते ।। १४२ ।। SREDEREAGAGAGAGAGRERERERERE अभवत् तस्य पादाब्जोपासनेऽतिमधुव्रता । कलत्रं सुव्रता नाम लोकोत्तरसतीव्रता ॥ २७ ॥ कोकिलाभिः कलालापो हंसीभिर्गतिचातुरी । मृगीभिर्दृष्टिविक्षेपः शिक्षितानि ततो ध्रुवम् ॥ २८ ॥ लज्जा सहचरी तस्यां शीललक्ष्मी: प्रसाधिका । कौलीन्यं कञ्चुकिवर: सहजोऽयं परिच्छदः ॥ २९ ॥ पतिभक्तिरलङ्कारस्तस्यां समुचितोऽवत् । अलङ्कार्यमलङ्कारजातं हारादि चापरम् ॥ ३० ॥ तदा च वैजयन्तस्थो जीवो दृढरथस्य सः । प्रकृष्टसुखनिमग्नो निजमायुरपूरयत् ॥ ३१ ॥ ततो राधशुक्लसप्तम्यां पुष्यगे विधौ । सुव्रतास्वामिनीकुक्षौ स जीवः समवातरत् ॥ ३२ ॥ गजप्रभृतिकांस्तीर्थकरजन्माभिसूचकान् । चतुर्दशमहास्वप्नांस्तदाऽदर्शच्च सुव्रता ॥ ३३ ॥ माघशुक्ल तृतीयायां पुष्ये भे वज्रलाञ्छनम् । स्वर्णवर्णं सुव्रतादेव्यसूत समये सुतम् ॥ ३४ ॥ दिक्कुमार्यः षट्पञ्चाशदेत्य भोगङ्करादयः । स्वामिनः स्वामिमातुश्च सूतिकर्माणि चक्रिरे ॥ ३५ ॥ तत्कालं पालकारूढः सौधर्मेन्द्र उपेत्य च । आदाय स्वामिनं निन्ये मेरुपर्वतमूर्धनि ॥ ३६ ॥ अपि पाण्डुकम्बलायां रत्नसिंहासने हरिः । आसाञ्चक्रे स्वाङ्कसिंहासनारोपिततीर्थकृत् ॥ ३७ ॥ अथाच्युतप्रभृतिभिस्त्रिषष्ट्या वासवैः प्रभोः । विधिवद् विदधे स्नात्रं पवित्रैस्तीर्थवारिभिः ॥ ३८ ॥ ईशानाङ्के निवेश्येशं स्त्रपयामास वज्रभृत् । विलिप्य पूजयित्वा च स्तोतुं चेत्युपचक्रमे ॥ ३९ ॥ नमस्तुभ्यं पञ्चदशायार्हते परमेश्वर ! । परमध्येयरूपाय परमध्यायिनेऽपि च ॥ ४० ॥ १ मधुव्रतं भ्रमरमतिक्रान्ता भ्रमरीसदृशीत्यर्थः । २ अलङ्कारपरिधापिनी दासी । ३ श्रेष्ठः कञ्चुकी- अन्तःपुराध्यक्षः । FREDEREREREDEREREREREDERERE चतुर्थं पर्व पञ्चमः सर्गः श्रीधर्म नाथजिनचरितम् । श्रीधर्मनाथ जिनजन्म । ॥ १४२ ॥
SR No.009656
Book TitleTrishashti Shakala Purush Charitam Part 3
Original Sutra AuthorHemchandracharya
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages524
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy