SearchBrowseAboutContactDonate
Page Preview
Page 178
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टिशलाका पुरुषचरिते ॥ ११६ ॥ FRYDAYDEDEDEDEDEDEDEDERERI कञ्चिदप्यतिवाह्येवं कालं सोऽथ विवेकवान् । चित्तरक्षगुरोः पादमूले दीक्षामुपाददे ॥ १० ॥ अर्हद्भक्त्यादिभिः स्थानैस्तीर्थकृन्नाम कर्म सः । बद्ध्वा मृत्वा प्राणतस्य पुष्पोत्तरे सुरोऽभवत् ॥ ११ ॥ इतश्च जम्बूद्वीपेऽस्मिन् भरतार्थेऽत्र दक्षिणे । इक्ष्वाकुवंशगिरिभूरयोध्येत्यस्ति पूर्वरा ॥ १२ ॥ विमलस्वच्छपयसा परिखावलयेन सा । विराजते रतस्त्रस्तवेणीव वरवर्णिनी ॥ १३ ॥ सुनिष्क्रमप्रवेशानि सत्संधीन्यर्थवन्ति च । सुभूमिकानि वेश्मानि नाटकानीव तत्र च ॥ १४ ॥ तस्यां गृहोर्ध्वभूमीषु काञ्चन्यो भान्ति जालिकाः । प्रत्येकं गृहलक्ष्मीभिराबद्धा मुकुटा इव ॥ १५ ॥ तत्र चैत्येष्वर्हदर्चापुष्पगन्धवहोऽनिलः । तापनाशाय लोकानां भवत्यमृतनस्यवत् ॥ १६ ॥ तस्यामासीत् सिंह इव विक्रमेणातिशायिना । अग्रेसरो नृसिंहानां सिंहसेनो महीपतिः ॥ १७ ॥ उपचारं प्रयच्छन्तः स्वस्य कल्याणकाम्यया । तस्याधिदैवतस्येव भक्त्या भूमिभुजोऽभवन् ॥ १८ ॥ अग्रणीर्गुणिनां तैस्तैः सोऽवदातैर्निजैर्गुणैः । जगदाप्रीणयामास करैरिव निशाकरः ॥ १९ ॥ काममर्थं च धर्मं च स दधौ स्वस्वमात्रया । सेवाऽऽगतान् राजपुत्रानिवौचित्यविचक्षणः ॥ २० ॥ सधर्मचारिणी तस्याभवद् धर्मस्य वासभूः । सुयशा नाम यशसा स्वशीलेनैव शालिनी ॥ २१ ॥ १ इक्ष्वाकुवंश एव गिरिस्तस्य भूः स्थानम् अथवा इक्ष्वाकुवंशस्य गिरिभूः गङ्गा पवित्रत्वात् । २ रतिप्रसङ्गे विशीर्णवेणीव । ३ उत्तमरमणी । ४ सुष्ठु गमनागमनद्वाराणि । ५ सुष्ठुपर्वाणि, अन्यत्र नाटकस्याङ्गविशेषः सन्धिः । ६ साधनवन्ति । ७ नस्यम् घ्राणम्। ८ उपायनम् । ९ मात्रा औचित्यम् । REDERERERE REDERERERERE चतुर्थं पर्व चतुर्थः सर्गः श्रीअनन्तनाथजिनचरितम् । अयोध्यायां सिंहसेननृपः । ॥ ११६ ॥
SR No.009656
Book TitleTrishashti Shakala Purush Charitam Part 3
Original Sutra AuthorHemchandracharya
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages524
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy