SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ चतुर्थं पर्व त्रिषष्टिशलाकापुरुषचरिते ॥११५ ॥ चतुर्थः सर्गः श्रीअनन्तनाथजिनचरितम् । 282828282828282828282828284 चतुर्थः सर्गः। (श्रीअनन्तनाथजिन-पुरुषोत्तम-सुप्रभ-मधुचरितम् । पायादनन्तस्वामी वः सिद्धानन्तचतुष्टयः । इहापि देहिनां मोक्ष इवानन्तसुखप्रदः ॥१॥ श्रीमतोऽनन्तनाथस्य चरित्रमिदमुच्यते । यानपात्रमिवापारसंसाराम्भोधितारणे ॥२॥ धातकीखण्डद्वीपे प्राग्विदेहे विजये पुनः । एरावताख्येऽरिष्टेति नगर्यस्ति गरीयसी ॥३॥ राजा पद्मरथो नाम तस्यामासीन्महारथः । द्विषद्रथिरथव्यूहस्खलनैकमहागिरिः ॥४॥ स जित्वाऽपि द्विषोऽशेषान् साधयित्वाऽखिलामिलाम् । न तृणायाप्यमंस्तैनां मोक्षश्रीसाधनोत्सुकः ॥५॥ विहारलीलामुद्याने जलक्रीडां च वापीषु । गन्धर्वाणां च मधुरसंगीतकविलोकनम् ॥६॥ वारणाऽश्वादियानानां गतिवैचित्र्यदर्शनम् । वसन्तकौमुदीप्रायक्रीडोत्सवनिरीक्षणम् ॥७॥ नाटकप्रभृतिदशरुपकाभिनयोत्सवम् । स्वर्विमानप्रतिमानवासौकोवसनं तथा ॥८॥ विचित्रवस्त्रनेपथ्याङ्गरागाकल्पकल्पनम् । न रागात् सोऽन्वभूत् किन्तु लोकयात्रानुवर्तनात् ॥९॥ ॥चतुर्भिः कलापकम् ॥ १ प्रतिमानम्-प्रतिबिम्बम्-सादृश्यम् । २ ओक:-हर्म्यम्-गृहम् । ३ आकल्पकल्पनम् -भूषणपरिधानम्। ४ लोकवृत्त्यनुसरणातत्। 282828282828282828282828285 अनन्तजिनस्य पूर्वभवः । ११५ ॥
SR No.009656
Book TitleTrishashti Shakala Purush Charitam Part 3
Original Sutra AuthorHemchandracharya
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages524
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy