SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टिशलाकापुरुषचरिते ॥९९ ॥ चतुर्थं पर्व तृतीयः सर्गः श्रीविमलनाथजिनचरितम्। 8282828282828282828282828282 इतश्च जम्बूद्वीपेऽस्मिन् भरतक्षेत्रभूषणम् । पुरं काम्पील्यमित्यस्ति दिवः खण्डमिव च्युतम् ॥ ११ ॥ तत्र चैत्यानि चन्द्राश्मपुत्रिकाक्षरदम्बुभि: । कलयन्ति निशीथिन्यां यन्त्रधारागृहश्रियम् ॥१२॥ हैमाः कुम्भाः प्रभासन्ते तत्र गेहोर्ध्वभूमिषु । स्वर्णाब्जान्याहितानीव निवासाय सदा श्रियः ॥१३॥ विचित्रहर्म्यप्रासादराजीकं तदराजत । विधातुरालेख्यमिव सृजतो दिविषत्पुरीम् ॥ १४ ॥ दैवेनाप्यभिभूतानां शरणार्थमुपेयुषाम् । वज्रवर्मेव तत्राभूत् कृतवर्मेति भूपति : ॥१५॥ गङ्गाजलं तद्यशश्च स्पर्धयेव परस्परम् । परितः प्रीणयत् पृथ्वी प्रपेदे निधिमम्भसाम् ॥ १६ ॥ नाभूत् पराङ्मुखो जातु याचकेष्विव सोऽरिषु । पराङ्मुखः परस्त्रीषु परनिन्दास्विवाभवत् ॥१७॥ महीविवस्वतस्तस्य समरे परिपन्थिनः । न सोढुमशकंस्तेजोऽन्धकारादिव निर्गताः ॥१८॥ पादच्छाया सदा तस्य महावटतरोरिव । कुब्जीभूय प्रणामेन सिषेवे वसुधाधवैः ॥१९॥ बभूव तस्य श्यामेति श्यामेव तुहिनद्युतेः । सधर्मचारिणी सर्वशुद्धान्तमुखमण्डनम् ॥ २० ॥ कुलश्रीरिव सा मूर्त्ता सतीव्रतमिवाङ्गवत् । रूप-लावण्यलक्ष्मीणां प्रत्यक्षेवाधिदेवता ॥ २१ ॥ मन्दं मन्दं मरालीव देवी संचरति स्म सा । नित्यमेव पतिध्यानव्याकुलेनेव चेतसा ॥२२॥ बभूव सा भूचरीषु स्त्रीष्वसाधारणा तथा । यथाऽर्हति स्म तत्सख्यं देवी श्रीरथवा शची ॥ २३ ॥ यत्र यत्र स्वामिनी सा चचार पृथिवीतले । तत्र तत्रान्वगाल्लक्ष्मीर्यामिकीव दिवानिशम् ॥२४॥ इतः कल्पे सहस्रारे पद्मसेनमहीपतेः । स जीवः पूरयामास स्वमायुः परमस्थिति ॥ २५ ॥ १ पुत्रिका-पुत्तलिका । २ रात्रौ । ३ स्वर्गम् । ४ वज्रमयकवचः । ५ क्षत्रवः । ६ प्रतिहारी । ७ उत्कृष्टस्थितिकम्। 3282888888888888888888888888 काम्पील्यपुरे कृतवर्मा नृपः । ॥९९ ॥
SR No.009656
Book TitleTrishashti Shakala Purush Charitam Part 3
Original Sutra AuthorHemchandracharya
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages524
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy