SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टि शलाका पुरुषचरिते ।। ९८ ।। DERERERERER REDEREREREREI तृतीयः सर्गः । श्रीविमलनाथजिन-स्वयम्भू-भद्र-मेरकचरित्रम् ॐ नमो विमलनाथाय निष्कर्मविमलात्मने । धर्मस्वाख्याततागङ्गाप्रभवैकहिमाद्रये ॥ १ ॥ त्रयोदशार्हतस्तस्य चरित्रमिदमुच्यते । जगत्पवित्रीकरणं तीर्थोदकमिवामलम् ॥ २ ॥ धातकीखण्डद्वीपे प्राग्विदेहे विजये पुनः । भरताख्ये पुरीरत्नं नामतोऽस्ति महापुरी ॥ ३ ॥ तत्र पद्मागृहं पद्मसेनो नाम महीपतिः । अपां पतिरिवाधृष्योऽभिगम्यश्चाभवद् गुणैः ॥ ४ ॥ स्वशासनमिवावन्यां स चित्ते जैनशासनम् । अखण्डप्रसरं चक्रे धुर्यो बलिविवेकिनाम् ॥ ५ ॥ दुर्वेश्मनीव संसारे सो मुष्मिन् निवसन्नपि । सदैव धारयामास वैराग्यमधिकाधिकम् ॥ ६ ॥ स एवं भवनिर्विण्णः सर्वगुप्ताभिधं गुरुम् । ययौ महीरुहवरं मार्गखिन्न इवाध्वगः ॥ ७ ॥ दीक्षां जग्राह तत्पार्श्वे सम्यक् तां प्रत्यपालयत् । रोरो धनमिव प्राप्तमनात्मज इवात्मजम् ॥ ८ ॥ अर्हद्भक्त्यादिभिः स्थानैर्यथाविधिनिषेवितैः । ऊर्जितैरर्जयामास तीर्थकृन्नाम कर्म सः ॥ ९ ॥ चिरं तीव्रं तपस्तप्त्वा पूरयित्वाऽऽयुरात्मनः । मृत्वा कल्पे सहस्त्रारे महद्धिः सोऽमरोऽभवत् ॥ १० ॥ १ स्वाख्यातता- सुप्रसिद्धि: । २ लक्ष्मीस्थानम् । ३ अधृष्यः अनभिभवनीयः । ४ अभिगम्यः- आश्रयणीयः ॥ ५ निर्विण्णः खिन्नः । ६ दरिद्रः । ७ अपुत्रः । FREDYAKAYDEDEDEDEDEDEDEDEDE चतुर्थं पर्व तृतीय: सर्गः श्रीविमलनाथजिनचरितम् । विमलजिनस्य पूर्वभवः । ।। ९८ ।।
SR No.009656
Book TitleTrishashti Shakala Purush Charitam Part 3
Original Sutra AuthorHemchandracharya
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages524
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy