SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टिशलाका पुरुषचरिते चतुर्थं पर्व द्वितीयः सर्गः श्रीवासुपूज्यवरितम् । ॥९३॥ 282828282828282828282828286 अपारे व्यसनाम्भोधौ पतन्तं पाति देहिनम् । सदा संविधव]कबन्धुर्धर्मोऽतिवत्सलः ॥ ३१२ ॥ आप्लावयति नाम्भोधिराश्वासयति चाम्बुदः । यन्महीं स प्रभावोऽयं ध्रुवं धर्मस्य केवलम् ॥ ३१३ ॥ न ज्वलत्यनलस्तिर्यग् यदूर्ध्वं वाति नानिलः । अचिन्त्यमहिमा तत्र धर्म एव निबन्धनम् ॥ ३१४ ॥ निरालम्बा निराधारा विश्वाधारा वसुन्धरा । यच्चावतिष्ठते तत्र धर्मादन्यन्न कारणम् ॥३१५ ॥ सूर्या-चन्द्रमसावेतौ विश्वोपकृतिहेतवे । उदयेते जगत्यस्मिन् नूनं धर्मस्य शासनात् ॥ ३१६ ॥ अबन्धूनामसौ बन्धुरसखीनामसौ सखा । अनाथानामसौ नाथो धर्मो विश्वैकवत्सलः ॥३१७ ॥ धर्मो नरक-पातालपातादवति देहिनः । धर्मो निरुपमं यच्छत्यपि सर्वज्ञवैभवम् ॥३१८ ॥ अयं दशविधो धर्मो मिथ्याग्भिर्न वीक्षितः । योऽपि कश्चित् क्वचित् प्रोचे सोऽपि वाङ्मात्रनर्तनम् ॥३१९ ॥ तत्त्वार्थो वाचि सर्वेषां केषाञ्चन मनस्यपि । क्रियायामपि नर्नति नित्यं जिनमतस्पृशाम् ॥ ३२०॥ वेदशास्त्रपराधीनबुद्धयः सूत्रकण्ठकाः । न लेशमपि जानन्ति धर्मरत्नस्य तत्त्वतः ॥३२१ ॥ गोमेघ-नरमेघा-ऽश्वमेघाद्यध्वरकारिणाम् । याज्ञिकानां कुतो धर्मः प्राणिघातविधायिनाम् ? ॥३२२॥ अश्रद्धेयमसद्भूतं परस्परविरोधि च । वस्तु प्रलपतां धर्मः कः पुराणविधायिनाम् ? ॥३२३ ॥ असद्भूतव्यवस्थाभिः परद्रव्यं जिघृक्षताम् । मृत्-पानीयादिभिः शौचं स्मार्तादीनां कुतो ननु ?॥३२४॥ 888888888888888888888888888 देशना। ॥९३॥ १ सविधम्-समीपम् । २ कण्ठे सूत्रम्-यज्ञोपवीतरूपं धरन्ति ते-द्विजाः । ३ अध्वरः यज्ञः। ४ स्मृतिम्-मनुस्मृति-प्रभृति-स्मृतिशास्त्रम्अनुसरन्ति ते स्मार्ताः ।
SR No.009656
Book TitleTrishashti Shakala Purush Charitam Part 3
Original Sutra AuthorHemchandracharya
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages524
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy