SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टिशलाका पुरुषचरिते ॥ ८५ ॥ FRERERERERERERERERERERERERE चलत्काञ्चनंताडङ्को लोलरत्नललन्तिकः । हेमासिंधेनुरुचिरसौवर्णकटिसूत्रकः ॥ २०२ ॥ पादबद्धरणरणद्रत्नघर्घरमालिकः । काकपक्षधरः क्रीडन् स कस्य न ददौ मुदम् ? ॥ २०३ ॥ युग्मम् ॥ प्रच्युत्य प्राणतात् सोऽपि जीवः पर्वतभूपतेः । सरस्यां हंसवदुमादेव्याः कुक्षाववातरत् ॥ २०४ ॥ सुप्ता सप्त महास्वप्नान् शार्ङ्गभृज्जन्मसूचकान् । मुखे प्रविशतोऽद्राक्षीदुमादेवी तदैव हि ॥ २०५ ॥ ततो नवसु मासेषु दिनेष्वर्धाष्टमेषु च । पूर्णाम्भोदमिव प्रावृट् सा श्यामं सुषुवे सुतम् ॥ २०६ ॥ ब्रह्माऽथ परमब्रह्मनिमग्न इव संमदात् । अर्थिनः प्रीणयश्चक्रे सूनोर्जन्ममहोत्सवम् ॥ २०७ ॥ शुभेषु ग्रह-नक्षत्र - तिथि- वारेषु सोत्सवम् । सूनोर्द्विपृष्ठ इत्याख्यां यथार्थामकरोन्नृपः ॥ २०८ ॥ अङ्गणोद्भूतकङ्केल्लिमिव तापसयोषितः । पञ्चभिः कर्मभिः पञ्च धात्र्यस्तं पर्यलालयन् ॥ २०९ ॥ धावन्तमुल्ललन्तं वा धात्र्यस्तं स्वैरचारिणम् । परिप्लवं पारदवन्नादातुं पाणिनाऽशकन् ॥ २१० ॥ पितुर्मातुर्ज्यायसश्च भ्रातुः सह मुदाऽन्वहम् । दर्शयन्नन्तरं स्वस्य द्वितीयो ववृधे हरिः ॥ २१९ ॥ कट्यां हृदि च पृष्ठे च स्कन्धदेशे च तं मुहुः । विजयो धारयामास धात्री षष्ठीव सौहृदात् ॥ २१२ ॥ अवतस्थौ ययौ शिश्ये न्यषीदद् बुभुजे पपौ । द्विपृष्ठोऽप्यनुविजयं स्नेहकार्मणयन्त्रितः ॥ २१३ ॥ निमित्तीकृत्य चाचार्यमलङ्ग्यात् पितृशासनात् । काले कला जगृहतुर्लीलया सीरि-शार्ङ्गिणौ ॥ २१४ ॥ अलब्धमध्यौ धवलश्यामलौ तौ सहोदरौ । क्षीरोद-लवणाम्भोधी इवाऽभातां वपुर्भृतौ ॥ २१५ ॥ १ ताडङ्कः-कुण्डलम् । २ललन्तिका कण्ठभूषा लम्बमाना । ३ असिधेनुः छुरिका । ४ बालानां शिखा काकपक्षः । ५ शार्ङ्ग- भृत्वासुदेवः । ६ चञ्चलम् । ७ द्विपृष्ठभ्राता तन्नामा बलदेवः । ८ निद्रां चकार । FRERERERERERERERERERERERERE चतुर्थं पर्व द्वितीय: सर्गः श्रीवासुपूज्य - चरितम् । द्विपृष्ठविजयतारक चरितम् । ॥ ८५ ॥
SR No.009656
Book TitleTrishashti Shakala Purush Charitam Part 3
Original Sutra AuthorHemchandracharya
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages524
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy