SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ चतुर्थं पर्व प्रथमः त्रिषष्टिशलाकापुरुषचरिते ॥५३॥ सर्गः श्रेयांसजिनचरितम् । 282828282828282828282828282 पत्रिणाच्छिददेकेन ध्वजं प्रतिहरेर्हरिः । दूरं पर्यास चान्येन रथमेरण्डखण्डवत् ॥६८१॥ कुपितोऽथ हयग्रीवः समारुह्य रथान्तरम् । दूरादागाच्छरैर्वर्षन् धारासारैरिवाम्बुदः ॥६८२ ॥ न रथः सारथिर्नापि न त्रिपृष्ठो न चापरम् । अदृश्यत हयग्रीवशरदुर्दिनडम्बरे ॥६८३ ॥ निराश शरवृष्टिं तां त्रिपृष्ठः शरवृष्टिभिः । रश्मिच्छटाभिर्भगवानन्धकारमिवार्यमा ॥६८४ ॥ अथ क्रुद्धो हयग्रीवः सोदरामिव विद्युतः । वयस्यां कुलिशस्येव मारेरिव च मातरम् ॥६८५ ॥ जिह्वामिवाहिराजस्य शक्तिं शक्तिमतां वरः । समुच्चिक्षेप शैलेयी शैलसारो महाभुज :॥६८६॥ क्वणर्घरिकाश्रेणिं कीनाशस्येव नर्तकीम् । राधाचक्रमिव स्तम्भेऽभ्रमयत् तां स मूर्धनि ॥६८७ ॥ विमानिभिर्दत्तमार्गा विमानभ्रंशभीरुभिः । अधित्रिपृष्ठं तामाशु सर्वस्थाम्ना मुमोच सः॥६८८ ॥ दण्डं द्वितीयं दोर्दण्डं तृतीयं समवर्तिनः । त्रिपृष्ठोऽप्याददे दोष्णा रथात् कौमोदकी गदाम् ॥ ६८९ ॥ तया जघान तां शक्तिमापतन्ती बलानुजः । हस्तीव हस्तदण्डेन क्रीडाकारकभस्त्रिकाम् ॥ ६९० ॥ स्फुलिङ्गैरुल्बणैः सोल्काशतपातं वितन्वती । क्षणेन कणशो भूत्वा पपात भुवि लोष्टवत् ॥ ६९१ ॥ दन्तमैरावणस्येवोद्भुतमेकं भयानकम् । परिघं परिघेनाथ मुमोच हयकन्धरः ॥६९२ ॥ समापतन्तं तमपि गदयाऽखण्डयद्धरिः । महोरगमिव त्रोटिकोट्या पत्ररथेश्वरः ॥६९३ ॥ १क्षिप्तवान्। २ 'रथम् एरण्डखण्डवत्' इति पदविभागः । ३ घर्घरिका-भाषायाम् 'घुघरीओ'। ४ समवर्ती-यमः । ५ भस्त्रिका-धमनी अत्र क्रीडनकरूपा लघुर्धमनी ज्ञेया।★घं तं प्रत्यमोधं मु०-६ त्रोटिकोटि:- चञ्चु-अग्रभागः । ७ गरुडः। 528282828282828282828282828A त्रिपृष्ठअचलचरितम्। ॥५३॥
SR No.009656
Book TitleTrishashti Shakala Purush Charitam Part 3
Original Sutra AuthorHemchandracharya
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages524
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy