SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टि शलाका पुरुषचरिते ॥ ४६ ॥ 'DE DE DE REN CREDERE DE RE हरिः स्वदेशसीमान्ते शिलास्तम्भमिवोच्चकैः । भूक्षोदकरथावर्तो रथावर्ताद्रिमासदत् ॥ ५९४ ॥ ॥ चतुर्भिः कलापकम् ॥ रणतूर्याण्यवाद्यन्त सैन्ययोरुभयोरपि । दिवौकस इवाह्वातुं युद्धसभ्या भवन्त्विति ॥ ५९५ ॥ रणसोत्कण्ठयोरुच्चैस्त्रिपृष्ठ - हयकण्ठयोः । समापन्नान्यनीकानि देव-दैत्येन्द्रयोरिव ॥ ५९६ ॥ तेषां संनह्यतामुच्चैः सैन्यानां तुमुलो दिशः । तुरङ्गमचमूक्षुण्णक्षोणिरेणुरिवारुणत् ॥ ५९७ ॥ सैन्यकेतुस्थितैः सिंहैः शरभैद्विपिभिर्गजैः । प्लवङ्गैश्च रराज द्यौररण्यानीव भीषणा ॥ ५९८ ॥ बन्धवो नारदस्येव कलिकेलिकुतूहलाः । संशप्तकाश्च संचेरुर्भटोत्साहनकर्मठाः ॥ ५९९ ॥ अथोपचक्रमेऽनीकमग्रानीकैर्द्वयोरपि । द्यां कुर्वद्भिः शरश्रेण्या प्रोत्पतत्पतगामिव ॥ ६०० ॥ अग्रानी कैस्तयोर्युद्धे शस्त्राग्निरुदभून्महान् । दवाग्निरिव शाखाग्रैः संघर्षेऽरण्यवृक्षयोः ॥ ६०१ ॥ शस्त्राशस्त्रि प्रवृत्तानां भटानाममितौजसाम्। संफेटोऽभूद् रणमुखे जलधौ यादसामिव ॥ ६०२ ॥ अश्वग्रीवस्याग्रसैन्यं त्रिपृष्ठस्याग्रसेनया । चक्रे पराङ्मुखं वाद्भिवेलयेव नदीजलम् ॥ ६०३ ॥ अग्रसैन्यस्य भङ्गेनाङ्गुल्यग्रस्येव तत्क्षणात् । विद्याधरवरा वाजिग्रीवगृह्याः प्रचुक्रुधुः ॥ ६०४ ॥ तेऽभवन्नाहवोत्ताला वेतालाश्चण्डबाहवः । पिशाचा यमसाचिव्यलब्धमुद्रा इवोच्चकैः ॥ ६०५ ॥ १ स्वर्गवासिन: ।★ समनह्यन्तानीकानि सं० का० । २ षष्ठीबहुवचनम् । ३ अवरोधको जातः । ४ द्वीपिन:- चित्रका: ' दीपडा' 'चित्ता' इति भाषायाम् । ५ दीर्घमरण्यमरण्यानी । ६ युद्धाद् अनिवर्त्तकाः । ७ यत्र पक्षिण उडयन्ते तादृशाऽऽकाराम् । ८ गृह्याः संबन्धिनः । ९ आहवः युद्धम्, तत्र उत्ताला उत्कटाः । PRERERERE AGAGAGAL चतुर्थं पर्व प्रथमः सर्गः श्रेयांस जिनचरितम् । त्रिपृष्ठ अचल चरितम् । ॥ ४६ ॥
SR No.009656
Book TitleTrishashti Shakala Purush Charitam Part 3
Original Sutra AuthorHemchandracharya
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages524
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy