SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टिशलाका पुरुषचरिते ॥ ३२ ॥ TRERERERE GR GR E RE RE चारुचूडामणिरुचिप्रसरव्यपदेशतः । रचितोदात्तकौसुम्भवस्त्रनीरङ्गिका इव ॥ १३२ ॥ शोभिताः स्वप्रभापूर्णान्तरैर्मौक्तिककुण्डलैः । सुधाकुण्डैरिव झलज्झलायितसुधोर्मिभिः ॥ १३३ ॥ ग्रैवेयकैः शोभमाना, विचित्रमणिनिर्मितैः । कुण्डलीकृतसुत्रामकोदण्डश्रीविडम्बिभिः ॥ १३४ ॥ अधिस्तनतटामुक्तैर्मुक्ताहारैर्मनोहराः । रत्नशैलतटीचञ्चन्निर्झर श्रीमलिम्लुचैः ॥ १३५ ॥ माणिक्यचूडावलयैर्विराजद्भुजवल्लयः । न्यासीकृतैरनङ्गेन, निषङ्गैरिव चारुभिः ॥ १३६ ॥ अनर्घ्यरत्नरचितां, दधाना रसनालताम् । जगज्जिगीषोः पञ्चेषोः, कृते ज्यामिव सज्जिताम् ॥ १३७ ॥ अङ्गांशुनिर्जितैः सर्वज्योतिष्काणामिवांऽशुभिः । लग्नैश्चरणपद्मेषु, शोभिता रत्ननूपुरैः ॥ १३८ ॥ काश्चिन्नीलाङ्गरुचयः, प्रियङ्गुलतिका इव । काश्चित् स्वभाभिस्तन्वन्त्यस्तालीवनमिवाऽम्बरे ॥ १३९ ॥ विकिरन्त्यो रुची: काश्चिद्, बालारुणरुचीरिव । स्त्रपयन्त्यो रुचा काश्चित्, सितया ज्योत्स्नयेव खम् ॥१४०॥ काश्चिद् ददत्यः कनकसूत्राणीव दिशां रुचा । काश्चिच्च कान्त्या वैडूर्यरत्नपाञ्चालिका इव ॥ १४१ ॥ सर्वाः कुचाभ्यां वृत्ताभ्यां, सचक्रा इव निम्नगाः । सर्वाः सलीलगामिन्यो, राजहंसाङ्गना इव ॥ १४२ ॥ सपल्लवा इव लताः, सर्वाः कोमलपाणयः । उन्निद्रपद्माः पद्मिन्य इव सर्वाः सुलोचनाः ॥ १४३ ॥ सर्वा लावण्यपूरेण, सजला इव दीर्घिकाः । सर्वाः सौन्दर्यशालिन्यो, मन्मथस्येव देवताः ॥ १४४ ॥ सञ्जाताऽऽसनकम्पेन, किमेतदिति सम्भ्रमात् । षट्पञ्चाशदपि हि ताः, सद्यः प्रायुञ्जताऽवधिम् ॥ १४५ ॥ ॥ पञ्चदशभिः कुलकम् ॥ १ इन्द्रधनुः । २ करकङ्कणैः । ३ तूणीरैः । ४ कटिमेखलाम् । ५ कामदेवस्य । ६ चक्रवाकसहिताः । CREDERERERERERERERERERERERER द्वितीयं पर्व द्वितीय: सर्गः अजित सगर चरितम् । दिक्कुमारिका कृतोजिनजन्मोत्सवः । ॥ ३२ ॥
SR No.009655
Book TitleTrishashti Shakala Purush Charitam Part 2
Original Sutra AuthorHemchandracharya
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages384
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy