SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टि शलाका पुरुषचरिते ॥ ३० ॥ FREDERERERERERERERERERERERE नौ युगपदर्हन्तौ युगपच्चक्रिणौ न च । एकस्यास्तीर्थकृत् सूनुरन्यस्याश्चक्रभृत् ततः ॥ १०२ ॥ ऋषभे भरतश्चक्री, सौमित्रिः सगरोऽजिते । जितशत्रुसुते तीर्थङ्कर इत्यर्हदागमात् ॥ १०३ ॥ ज्ञातव्यो विजयादेव्याः, सूनुस्तीर्थकरः खलु । षट्खण्ड भरताधीशो, वैजयन्त्यास्तु नन्दनः ॥ १०४ ॥ परितुष्टस्ततस्तेषां, नृपतिः पारितोषिकम् । प्रददौ ग्रामखेटादि, वस्त्रालङ्करणादि च ॥ १०५ ॥ आजन्मदौःस्थ्यमगमत् तेषां तज्जन्मशंसनात् । महापुमांसो गर्भस्था, अपि लोकोपकारिणः ॥ १०६ ॥ वस्त्रालङ्करणैः कल्पद्रुमा इव विराजिनः । ते राजानुज्ञया जग्मुस्ततः स्वं स्वं निकेतनम् ॥ १०७ ॥ विजया - वैजयन्त्यौ च वासागारं निजं निजम् । जग्मतुर्मुदिते गङ्गा-सिन्धू इव पयोनिधिम् ॥ १०८ ॥ ततः पुरन्दरादेशान्नित्यं देवासुरस्त्रियः । सेवितुं विजयादेवीमेवमारेभिरे भृशम् ॥ १०९ ॥ स्वामिनीसदनात् पांसुतृणकाष्ठादि सर्वतः । सदाऽपनिन्यिरे वायुकुमाररमणीजनाः ॥ ११० ॥ गन्धोदकेन सिषिचुस्तद्वेश्माङ्गणभूमिकाम् । भुजिष्याजनवन्मेघकुमारकमृगीदृशः ॥ १११ ॥ ववृषुः पञ्चवर्णानि पुष्पाणि ऋतुदेवताः । प्रभोर्गर्भस्थितस्याऽपि दातुमर्घमिवोद्यताः ॥ ११२ ॥ प्रकाशमुपनिन्युश्च, ज्योतिष्काणां पुरन्ध्रयः । यथासुखं यथाकालं, स्वामिन्या भाववेदिकाः ॥ ११३ ॥ वनदेव्यो दास्य इव, चक्रिरे तोरणादिकम् । ता मागधस्त्रिय इव, तुष्टुवुश्च सुरस्त्रियः ॥ ११४ ॥ देवताभिरिति स्वाधिदेवतेव ततोऽपि वा । अधिकेव प्रतिदिनं, विजयादेव्यसेव्यत ॥ ११५ ॥ कालिकेवांशुमद्विम्बं निधानमिव मेदिनी । विजया वैजयन्ती च, देवी गर्भमधारयत् ॥ ११६ ॥ १ आजन्मदारिद्यम् । २ दासीजनवत् । ३ मेघमाला । CREDEREREDEREREREREREREDERY द्वितीयं पर्व द्वितीय: सर्गः अजित सगर चरितम् । स्वजलक्षण पाठकाः । ॥ ३० ॥
SR No.009655
Book TitleTrishashti Shakala Purush Charitam Part 2
Original Sutra AuthorHemchandracharya
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages384
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy