SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ पृष्ठ क्र. ॥३३॥ द्वितीयपर्वान्तर्गतानि सुभाषितानि । सुभाषितम् । चिकित्स्यते हि निपुणैरङ्गोद्भवमपि व्रणम् । जन्मान्तरानुधावीनि कर्माणि ऋणवन्नृणाम् । स्वार्थभ्रंशो हि मूर्खता। निश्चिते कार्ये, नालसन्ति मनस्विनः । चक्षुष्मानपि किं कुर्यादन्धकारे प्रसृत्वरे । गुर्वाज्ञा हि कुलीनानां विचारमपि नाऽर्हति । बालेऽपि हि सुते हन्त ! सिंही स्वपिति निर्भरम् । गुर्वाज्ञाकरणं सर्वगुणेभ्यो ह्यतिरिच्यते । तिष्ठन्त्येकत्र नर्षयः । महापुमांसो गर्भस्था अपि लोकोपकारिणः । सर्व हि शुभमेव स्याज्जन्मतोऽपि शुभात्मनाम् । देवतानां जन्मसिद्धाः खलु वैक्रियलब्धयः । जायते घृष्यमाणाद्धि दहनश्चन्दनादपि । निष्पद्यन्ते सुमनसां, मनसा हीष्टसिद्धयः । एकधाऽनेकधा च स्युः कामरुपा दिवौकसः । तापनीये ह्यलङ्कारे सुतरां द्योतते मणिः । ॥33॥
SR No.009655
Book TitleTrishashti Shakala Purush Charitam Part 2
Original Sutra AuthorHemchandracharya
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages384
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy