SearchBrowseAboutContactDonate
Page Preview
Page 341
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टिशलाका पुरुषचरिते ॥७७॥ बिभ्रत्पाणी नकुलाऽक्षसूत्रिणौ दक्षिणेतरौ । सदा सन्निधिवर्त्यासीद् भर्तुः शासनदेवता ॥ १८१ ॥ ॥ युग्मम् ॥ तथोत्पन्नाऽच्युता नाम श्यामाङ्गी नरवाहना । बिभ्राणा दक्षिणौ बाहुदण्डौ वरदपाशिनौ ।। १८२ ॥ वामौ च कार्मुकधराभयदौ बिभ्रती भुजौ । पद्मप्रभजिनेन्द्रस्याभवच्छासनदेवता ।। १८३ ।। अमुक्तसन्निधिस्ताभ्यां विश्वानुग्रहकाम्यया । विजहार जगत्स्वामी ग्रामाकरपुरादिषु ।। १८४ ।। साधूनां त्रीणि लक्षाणि सहस्रास्त्रिंशदेव च । साध्वीनां च चतुर्लक्षी सहस्राणि च विंशतिः ।। १८५ ।। चतुर्दशपूर्वभृतां द्वे सहस्रे शतत्रयम् । अवधिज्ञानवतां च सहस्राणि पुनर्दश ।। १८६ ।। मनःपर्ययिणां त्रीणि शतान्ययुतमेव च । सहस्राणि द्वादश तु केवलज्ञानशालिनाम् ।। १८७ ।। वैक्रियलब्धिसहस्राः षोडशाष्टोत्तरं शतम् । वादलब्धिधराणां तु सहस्रा नव षट्शती ।। १८८ ।। श्रावकाणामुभे लक्षे षट्सप्ततिसहस्यपि । श्राविकाणां पुनः पञ्च लक्षाः पञ्च सहस्यपि ।। १८९ ।। परिवारोऽभवद् भर्तुः केवलज्ञानकालतः । षण्मास्या षोडशाङग्योनं पूर्वलक्षं विहारिणः ।। १९० ॥ मोक्षकालमथासन्नं विदित्वा परमेश्वरः । सम्मेताद्रिं जगामाथानशनं मासिकं व्यधात् ।। १९१ ।। मार्गशीर्षे च कृष्णैकादश्यां चित्रास्थिते विधौ । क्षीणशेषचतुष्कर्मा सिद्धानन्तचतुष्टयः ।। १९२ ।। मुनीनामनशनिनां शतैस्त्र्यग्रैः सहाष्टभिः । ध्यानाच्चतुर्थाच्चतुर्थं पुमर्थमगमत्प्रभुः ।। १९३ ।। ।। युग्मम् ।। १ शुक्लध्यानात् । २ मोक्षम् । * ° पूर्वधरा द्वे । तृतीयं पर्व चतुर्थः सर्गः श्रीपद्मप्रभ जिनचरितम् । परिवारः निर्वाणं च । ।। ७७ ।।
SR No.009655
Book TitleTrishashti Shakala Purush Charitam Part 2
Original Sutra AuthorHemchandracharya
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages384
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy