SearchBrowseAboutContactDonate
Page Preview
Page 313
Loading...
Download File
Download File
Page Text
________________ तृतीयं पर्व त्रिषष्टिशलाकापुरुषचरिते ।।४९॥ तृतीयः सर्गः श्रीसुमतिजिनचरितम् । राज्ञा महोत्सवश्चक्रे हृदयाब्धिनिशाकरः । नागरैरपि तदनु स्वतोऽपि स्वजनैरिव ।। ५८ ।। राज्ञीस्वप्नानुसारेण कुमारस्य महीभुजा । विदधे पुरुषसिंह इति नाम मनोरमम् ।। ५९ ।। लाल्यमानः स धात्रीभिः कुमारो ववृधे क्रमात् । मातुः पितुः प्रजानां च सममेव मनोरथैः ।। ६०॥ कला जग्राह सकलाः स इन्दुरिव पार्वणः । प्रापच्च यौवनं लीलावनं मेकरलक्ष्मणः ।। ६१ ।। आत्मानुरुपा रुपेण कलाभिश्च कुलेन च । उपायतायतभुजः सोऽष्टौ कन्याः क्षमाभुजाम् ।। ६२ ।। सुखं वैषयिकं ताभिरप्सरोभिरिवामरः । यथाक्षणं रममाणोऽन्वभूद्विजयसेनभूः ॥ ३ ॥ ऋतुः साक्षादिव मधुः साक्षान्मधुसखोऽथवा । सोऽगात् क्रीडितुमन्येधुः क्रीडोद्यानं यहच्छया ।। ६४ ।। तत्रापश्यच्च समवसृतं विनयनन्दनम् । नाम सूरि जितानङ्गं रुपेण च शमेन च ।। ६५ ॥ तं तस्य पश्यतः पीतामृतस्येव विलोचने । हृदयं चापराण्यङ्गान्यपि च व्यकसन्निव ।। ६६ ॥ सोऽथेति दध्यौ वेश्यान्ते सतीत्वस्येव पालनम् । तस्कराणां सन्निधाने निधानस्येव गोपनम् ।।६७ ॥ मार्जारयूनामभ्यर्णे पीयूषस्येव रक्षणम् । शाकिन्याः प्रतिवेश्मिक्ये स्वस्येव क्षेमकारिता ।।६८ ॥ रुपस्याप्रतिरुपस्य वयसो मध्यमस्य च । उन्मादहेतावुदयेऽमुष्याहो ! व्रतधारणम् ।। ६९ ॥ ॥त्रिभिर्विशेषकम् ।। हिम सोत हेमन्ते ग्रीष्मे च तपनातपः । झञ्झावातोऽपि वर्षासु न पुनरौवने स्मरः ॥ ७० ॥ १ हृदयमेवाब्धिस्तस्मिन्निशाकरसहशः ।२ मकरः लक्ष्म चिह्न यस्य सः कामः । ३ कामः । ४ रक्षणम् । ५ समीपगृहवासत्वे । ६ असशस्य । ७ यौवनस्य । ८ तपनस्य सूर्यस्यातपः । ९ सवृष्टिको वातः । पूर्वभवचरितम् । ॥ ४९ ॥
SR No.009655
Book TitleTrishashti Shakala Purush Charitam Part 2
Original Sutra AuthorHemchandracharya
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages384
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy