SearchBrowseAboutContactDonate
Page Preview
Page 312
Loading...
Download File
Download File
Page Text
________________ तृतीयं पर्व त्रिषष्टिशलाकापुरुषचरिते ॥४८॥ तृतीयः सर्गः श्रीसुमतिजिनचरितम् । आख्यद् राजापि तं देव्या देव्या दत्तं वरं वरम् । स्तनितेन बलाकेव मुदिता तेन देव्यपि ॥४३ ॥ देव्याः सुदर्शनायास्तु स्नाताया अपरेऽहनि । दिवो महर्द्धिको देवश्च्युत्वा कुक्षाववातरत् ।। ४४ ॥ तदा च दशे देव्या सुप्तया प्रविशन्मुखे । एकः केसरिकिशोरः कुडमारुणकेसरः ॥ ४५ ॥ उत्थाय शयनीयाच्च सत्वरं भीतभीतया । तया निजगदे राज्ञे स्वास्ये सिंहप्रवेशनम् ॥ ४६ ।। राजाऽप्यूचे विक्रमी ते भावी सिंह इवात्मजः । स्वप्नेनानेनैतदुक्तं देवीवरतरोः फलम् ॥ ४७ ॥ तेन स्वप्नविचारेण राज्ञी भृशममोदत । जजागार च तं रात्रिशेषं शुभकथापरा ।। ४८ ।। देव्याः कुक्षाववर्धिष्ट गर्भः सोऽपि दिने दिने । मध्येसरिद्वरावारि सौवर्णमिव वारिजम् ।। ४९ ।। अन्यदा दोहदान् देवी समुत्पन्नान्महीभुजे । शशंसेत्यभयं दित्साम्यहं निःशेषदेहिनाम् ॥ ५० ॥ अमारिमाघोषयितुमिच्छामि च पुरादिषु । अष्टाहिकाश्चिकीर्षामि निखिलायतनेषु च ।। ५१ ।। राजाप्यूचे देवि ! देवीवरस्वप्नार्थयोरयम् । साधु सत्यापको गर्भप्रभावाद्दोहदस्तव ।। ५२ ॥ महेच्छस्य हि गर्भस्य वशादिच्छेयमीशी । प्रतिमायाः प्रभावोऽधिष्ठातृदेवोचितः खलु ।। ५३ ॥ इत्युक्त्वा भूपतिः सद्यो भीतानामभयं ददौ । घोषयामास चामारि डिण्डिमास्फालपूर्वकम् ।। ५४ ।। अष्टप्रकारपूजाभिर्दिव्यैः सङ्गीतकैरपि । अष्टाहिकोत्सवानुच्चैः प्रतिचैत्यं चकार च ।। ५५ ।। हृष्टा तैर्दोहदैः पूर्णः पूर्णेन्दुविशदानना । फलं वल्लीव समये पुत्ररत्नमसूत सा ।। ५६ ।। यथाकाममथार्थिभ्यश्चिन्तामणिरिवार्थितम् । ददावाघोषणापूर्व नरेश्वरशिरोमणिः ।। ५७ ॥ १ मेघगर्जितेन । २ ऋतुस्नातायाः । ३ श्रेष्ठनदीजलमध्ये । ४ अहिंसां । ५ पूर्णेदुवत् विशदमाननं यस्याः सा । * मुमुदे ।।-अपरेधवि । RAHASHRSHASTRARSHASHASHAR पूर्वभवचरितम् । ॥४८॥
SR No.009655
Book TitleTrishashti Shakala Purush Charitam Part 2
Original Sutra AuthorHemchandracharya
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages384
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy