SearchBrowseAboutContactDonate
Page Preview
Page 265
Loading...
Download File
Download File
Page Text
________________ तृतीयं पर्व प्रथमः त्रिषष्टिशलाकापुरुषचरिते ॥१॥ सर्गः श्रीसम्भवजिनचरितम् । (प्रथमः सर्गः । MS (श्री सम्भवजिनचरितम् । या त्रैलोक्यप्रभवे पुण्यसम्भवाय भवच्छिदे । श्रीसम्भवजिनेन्द्राय मनोभवभिदे नमः ॥ १ ॥ धात्रीपवित्रीकरणं लवित्रं कर्मवीरुधाम् । चरित्रमथ वक्ष्यामि श्रीसम्भवजिनेशितुः ॥ २ ॥ धातकीखण्डद्वीपस्य क्षेत्र ऐरावताभिधे । पुरी क्षेमपुरीनामा क्षेमधामास्ति विश्रुता ॥ ३ ॥ तस्यामासीत्समायात इवो| मेघवाहनः । महीपतिर्विपुलधीर्नाम्ना विपुलवाहनः ।। ४ ॥ आरामिक इवाराममविराममसौ प्रजाः । विधिवत्पालयामास छिन्दन् शल्यानि सर्वतः ॥ ५ ॥ प्रीणयन्ती जनपदान् परितः पथिकानिव । नीतिकल्लोलिनी तस्य प्रससार निरन्तरम् ।। ६ ।। अपराधं परस्येव स्वस्यापि न्यायतत्परः । असह्यशासनधरः स न सेहे मनागपि ।।७।। उपायं प्रायुक्त तुर्यं दोषमानेन दोषिषु । सोऽगदं गदमानेनातुरेष्विव चिकित्सकः ॥ ८ ॥ गुणानुरुपमकरोदर्चनं गुणिनामसौ । विवेकिनां विवेकस्य फलं ह्यौचित्यवर्तनम् ॥ ९ ॥ १ छेदकं । २ कर्मलतानाम् । ३ इन्द्रः । ४ दुःखानि । ५ नदी । ६ वैद्यः । * "मकरी । * 'वर्तिनाम् संवृ। सम्भवजिनस्य पूर्वभवः । 119॥
SR No.009655
Book TitleTrishashti Shakala Purush Charitam Part 2
Original Sutra AuthorHemchandracharya
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages384
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy