SearchBrowseAboutContactDonate
Page Preview
Page 231
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टिशलाका पुरुषचरिते ।। १८५ ।। *CREDEREREDEREREREDERERERERE किं वा वीणाप्रवीणोऽसि ?, किं वेणुनिपुणोऽसि वा ? । पटुः पटहवाद्ये वा?, मर्दलेवाऽसि दुर्मदः? ॥ २४१॥ यद्वा वाग्गेर्यकारोऽसि ?, किं शिक्षागायनोऽसि वा ? । रङ्गाचार्योऽथवाऽसि त्वं ?, किं नाटकनटोऽसि वा? ॥ अथ वैतालिकोऽसि त्वं?, नग्नाचार्योऽथवाऽसि किम् ? । संशप्तकोऽसि यदि वा ?, चारणो यदि वाऽप्यसि ? ॥ लिपिज्ञलेखको वा किमसि ? चित्रकरोऽथवा ? । अथ पुस्तकरो वा त्वमन्यो वा कोऽपि शिल्प्यसि ? ॥ २४४॥ नदी-नद-नदीनाथतरणे वा कृतश्रमः ? । मायेन्द्रजाल - कुहकप्रयोगचतुरोऽसि वा ? ॥ २४५ ॥ एवं वसुमतीनाथेनाऽनुयुक्तः स सादरम् । भूयोऽपि हि नमस्कृत्य, सप्रश्रयमदोऽवदत् ॥ २४६ ॥ पाथसामिव पाथोधिरादित्यस्तेजसामिव । सर्वेषां पात्रभूतानां त्वमाधारो धराधव ! ॥ २४७ ॥ वेदादिशास्त्रविज्ञेषु, सहाधीतीव तादृशः । धनुर्वेदादिविद्वत्सु, तदाचार्य इवाऽधिकः ॥ २४८ ॥ प्रत्यक्षो विश्वकर्मेव, विश्वस्मिन् शिल्पकर्मणि । सरस्वतीव पुंरूपा, गीतादिककलासु च ॥ २४९ ॥ रत्नादिव्यवहारेषु, पितेव व्यवहारिणाम् । बन्द्यादीनामुपाध्याय, इव वाग्मितयाऽस्मि च ॥ २५० ॥ नद्यादिवारितरणं, कलालेशः कियान् मम? । इन्द्रजालप्रयोगार्थं, किन्त्वस्मि त्वामुपागतः ॥ २५१ ॥ अहं हि सद्य उद्यानवीथिकां दर्शयामि ते । मध्वादीनां परावर्तमृतूनां कर्तुमीश्वरः ॥ २५२ ॥ गन्धर्ववर्गसङ्गीतं, व्योमन्याविष्करोमि च । क्षणाददृश्यो हुश्यो वा निमेषान्तर्भवाम्यहम् ॥ २५३ ॥ भक्षयाम्यहमङ्गारान्, खादिरानपि सक्तुवत् । चर्वयामि क्रमुकवत्, तप्तायस्तोमरानपि ॥ २५४ ॥ १ मुखेन गायकः । २ स्तुतिपाठकः । ३ युद्धादनिवर्त्तनप्रतिज्ञाकारी । ४ मृन्मयरूपघटकः । ५ सहाध्यायी । ६ सर्वस्मिन् । ७ पूगफलवत् । ८ अस्त्रविशेषान् । KEREREREREREREREREDERERERERY: द्वितीयं पर्व षष्ठः सर्गः अजित सगर चरितम् । सगरप्रतिबोधाय सुबु द्धिमन्त्र्युक्तं तान्त्रिकोदाहरणम् । ॥ १८५ ॥
SR No.009655
Book TitleTrishashti Shakala Purush Charitam Part 2
Original Sutra AuthorHemchandracharya
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages384
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy