SearchBrowseAboutContactDonate
Page Preview
Page 208
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टिशलाकापुरुषचरिते द्वितीयं पर्व पञ्चमः सर्गः अजितसगरचरितम् । ॥१६२ ॥ 282828282828282828282828282 चारणश्रमणैस्तानि, बिम्बानि प्रत्यतिष्ठिपत् । बाहुबल्यादिबन्धूनां, स्तूपान् मूर्तीश्च सोऽकृत ॥१०३ ॥ स्थितोऽत्र वृषभस्वामी, तीर्थकृच्चक्रि-केशवान् । प्रतिकेशव-रामांश्च, भाविनस्तमजिज्ञपत् ॥१०४ ॥ सोपानभूतानि पदान्यष्टाऽमुं परितो व्यधात् । भरतो येन तेनाऽयमष्टापद उदीर्यते ॥१०५ ॥ असावस्मत्पूर्वजानामिति प्रादुर्भवन्मुदः । तं तेऽथाऽऽरुरुहुः शैलं, कुमाराः सपरिच्छदाः ॥१०६ ॥ तत्र सिंहनिषद्यायां, चैत्ये प्रविविशुश्च ते । दूरादालोकमात्रेऽपि, नेमुश्चाऽऽदिजिनेश्वरम् ॥१०७ ॥ अजितस्वामिबिम्बं च, बिम्बान्यन्याहतामपि । तुल्यया श्रद्धया नेमुर्गर्भश्राद्धा हि ते खलु ॥१०८ ॥ अथ गन्धोदकैः शुद्धैर्मन्त्राकृष्टैरिव क्षणात् । कुमाराः स्नपयामासुर्बिम्बानि श्रीमदर्हताम् ॥१०९॥ केऽप्यद्भिर्बिभराञ्चक्रुः, कलसान् केचिदार्पयन् । केचिच्च लोठयामासुः, प्रतीर्घः केऽपि रेचितान् ॥११०॥ केऽपि स्नात्रविधि पेठुर्जगृहुः केऽपि चामरान् । सौवर्णधूपदहनान्युपाददत चाऽपरे ॥ १११ ॥ चिक्षिपुषूपदहनेष्वपरे धूपमुत्तमम् । केऽपि शङ्खादितूर्याणि, वादयामासुरुच्चकैः ॥ ११२ ॥ स्नानगन्धोदकैस्तैश्च, पतद्भिस्तत्र वेगतः । अष्टापदगिरिज॑ज्ञे, तदा द्विगुणनिर्झरः ॥११३॥ पक्ष्मलैः कोमलै रूक्षैर्देवदूष्योपमैः पटैः । तेऽमार्जन रत्नबिम्बानि, तानि वैकटिका इव ॥११४ ॥ गोशीर्षचन्दनरसैश्चक्रुस्तेषां विलेपनम् । तेऽतिसैरन्ध्रयः स्वैरं, निर्भरं भक्तिशालिनः ॥११५ ॥ अर्चयामासुरर्चास्ता, विचित्रैः पुष्पदामभिः । रत्नालङ्करणैर्दिव्यैर्वस्त्रैरपि मनोहरैः ॥ ११६ ॥ पुरतः स्वामिबिम्बानामिन्दुरुपविडम्बिनः । अखण्डैस्तण्डुलैः पट्टेष्वालिखंस्तेऽष्टमङ्गलीम् ॥११७॥ १ जगृहुः । २ रिक्तान्। ३ मणिकारा इव । 28282828282828282828282828 सगरपुत्रैरष्टापदगिरेदर्शनम्। ॥१६२॥
SR No.009655
Book TitleTrishashti Shakala Purush Charitam Part 2
Original Sutra AuthorHemchandracharya
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages384
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy