SearchBrowseAboutContactDonate
Page Preview
Page 207
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टिशलाकापुरुषचरिते द्वितीयं पर्व पञ्चमः सर्गः अजित ॥१६१॥ सगर चरितम्। 282828282828282828282828286 महासरोभिः पीयषनिधानमिव नाकिनाम् । उपात्तनीलसंव्यानमिव सान्द्रार्द्रपादपैः ॥८८॥ महापक्षधरमिव, पयोदैः पारिपाश्चिकैः । लम्बमानपताकाकमिव निर्झरवारिभिः॥८९॥ विद्याधरविलासौको, वैताढ्यमिव नूतनम् । गायन्तमिव मुदितमयूरादिकलस्वनैः ॥९०॥ चैत्यं सशालभञ्जीकमिव खेचर्यधिष्टितम् । किरीटमिव मेदिन्या, रत्नोपलविनिर्मितम् ॥९१ ॥ नन्दीश्वरद्वीपमिव, चैत्यवन्दनकाम्यया । अभीयमानं सततं, चारणश्रमणादिभिः ॥९२॥ तं दृष्ट्वा नित्यपर्वाणं, पर्वतं स्फाटिकोपलम् । ते पप्रच्छुः स्वसचिवान्, सुबुद्धिप्रभृतीनिति ॥९३ ॥ वैमानिकानां स्वर्गस्थक्रीडाद्रिभ्य इवैककः । अवतीर्णो वसुमतीमयं को नाम पर्वतः? ॥९४ ॥ केन चाऽभ्रंलिहमिह, विदधे चैत्यमद्भुतम् । इदं हिमवदद्रिस्थशाश्वतायतनोपमम्? ॥९५ ॥ अथ ते मन्त्रिणोऽप्यूचुः, पुराऽभूदृषभः प्रभुः । युष्मद्वंशस्याऽऽदिकरस्तीर्थस्याऽप्यत्र भारते ॥ ९६ ॥ तत्सूनुर्नवनवतेओतृणामग्रजोऽभवत् । भरतो नाम षट्खण्डभरतक्षेत्रशासिता ॥ ९७ ॥ क्रीडागिरिरयं तस्य, चक्रिणोऽष्टापदाभिधः । अनेकाश्चर्यसदनं, सुमेरुरिव वज्रिणः ॥९८ ॥ साधूनां दशसाहम्या, सहेह च महीधरे । भगवानृषभखामी, जगाम पदमव्ययम् ॥९९ ॥ ऋषभस्वामिनिर्वाणानन्तरं भरतेश्वरः । चैत्यं सिंहनिषद्याख्यं, चक्रे रत्नोपलैरिह ॥१०० ॥ ऋषभस्वामिनो बिम्बमहतां भाविनामपि । स त्रयोविंशते रत्नग्रावभिर्दोषवर्जितैः ॥१०१॥ स्वस्यप्रमाणसंस्थानवर्णलाञ्छनभाञ्जि तु । बिम्बानि भक्त्या परया, व्यधत्तेह यथाविधि ॥१०२युग्मम्॥ १ उत्तरीयवस्त्रम्। २ अभिगम्यमानम्। ३ नित्योत्सवम् । 182828282828282828282828286 सगरपुत्ररष्टापदगिरे दर्शनम्। ॥१६१॥
SR No.009655
Book TitleTrishashti Shakala Purush Charitam Part 2
Original Sutra AuthorHemchandracharya
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages384
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy