SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टिशलाका पुरुषचरिते ॥ ६८ ॥ FREDEREREREREREREDERERERERE मद्युती सार्धचतुर्धनुःशतसमुच्छ्रयौ । श्रीवत्सलाञ्छितोरस्कौ, रुचिरोष्णीषशालिनौ ॥ ५८ ॥ अथाssवनं तौ वपुर्लक्ष्मीविशेषकम् । शरदं स्वप्रभाधिक्यकरीं सूर्य - विधू इव ॥ ५९ ॥ ॥ त्रिभिर्विशेषकम् ॥ कुटिल - श्यामलैः केशैर्यमुनावीचिसोदरैः । तौ रेजाते ललाटेन, चाऽष्टमीचन्द्रबन्धुना ॥ ६० ॥ तयोः कपोलौ बंभतुरादश काञ्चनाविव । नेत्रे च स्निग्ध-मधुरे, नीलोत्पलदलोपमे ॥ ६१ ॥ दृक्सरस्योरन्तराले, तयोः पालीव नासिका । शुशुभाते चोष्ठपुटे, युग्मबिम्बीफले इव ॥ ६२ ॥ तयोः श्रुती शुभावर्ते, रेजतुः शुक्तिके इव । रेखात्रयपवित्रश्च, कम्बुवत् कण्ठकन्दलः ॥ ६३ ॥ तयोश्च बाहुशिखरौ, कुम्भिकुम्भाविवोन्नतौ । अभातामायतौ पीनौ, भुजौ भुजगराजवत् ॥ ६४ ॥ तयोरुरःस्थलमपि, स्वर्णशैलशिलानिभम् । मनोवदतिगम्भीरा, नाभिश्च प्रत्यभासत ॥ ६५ ॥ कृशश्च कुलिशस्येव, मध्यदेशस्तयोरभूत् । महाकरिकराकारावूरू सरल - कोमलौ ॥ ६६ ॥ एणीजङ्घाप्रतिरूपे, जङ्घाकाण्डे पुनस्तयोः । ऋज्वङ्गलिदलौ पादौ स्थलपद्मानुहारिणौ ॥ ६७ ॥ निसर्गेणापि तौ रम्यौ, यौवनेन विशेषतः । बभूवतुर्मेधुनेवाऽऽरामौ रामाजनप्रियौ ॥ ६८ ॥ सगरः सर्वमर्त्येभ्यः, सुरेभ्य इव वासवः । उदकृष्यत रूपेण, विक्रमादिगुणैरपि ॥ ६९ ॥ अजितेशः पुनः सर्वकल्पदेवेभ्य उच्चकैः । ग्रैवेयकनिवासिभ्योऽनुत्तरेभ्यश्च सर्वतः ॥ ७० ॥ आहारकशरीरादप्यत्यरिच्यत रूपतः । शैलेभ्य इव सर्वेभ्यो, मानतो मेरुपर्वतः ॥ ७१ ॥ ॥ युग्मम् ॥ १ शुशुभाते । २ राजकुम्भौ । ३ वज्रस्येव । ४ मृगीजङ्घासदृशे । ५ वसन्तेन । CREDEREREREREREREDERERERE RY द्वितीयं पर्व तृतीय: सर्गः अजित सगर चरितम् । अजितजिनसगरचक्रिणोयैविनं पाणिग्रहणं च । 112 11
SR No.009655
Book TitleTrishashti Shakala Purush Charitam Part 2
Original Sutra AuthorHemchandracharya
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages384
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy